ऐनं॑ श्र॒द्धाग॑च्छ॒त्यैनं॑ य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒न्नाद्यं॑गच्छति॒ य ए॒वं वेद॑ ॥
आ । एनम् । श्रध्दा । गच्छति । आ । एनम् । यज्ञ: । गच्छति । आ । एनम् । लोक: । गच्छति । आ । एनम् । अन्नम् । गच्छति । आ । एनम् । अन्नऽअद्यम् । गच्छति । य: । एवम् । वेद ॥७.५॥
PANDIT KSHEMKARANDAS TRIVEDI
परमात्माकी व्यापकता का उपदेश।
