Go To Mantra

म॑हादे॒वए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑श॒र्वो न भ॒वो नेशा॑नः। नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥

Mantra Audio
Pad Path

महाऽदेव: । एनम् । इषुऽआस: । ऊर्ध्वाया: । दिश: । अन्त:ऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्व: । न । भव: । न । ईशान: । न । अस्य । पशून् । न । समानम् । हिनस्ति । य: । एवम् । वेद ॥५.१३॥

Atharvaveda » Kand:15» Sukta:5» Paryayah:0» Mantra:13


Reads 48 times

PANDIT KSHEMKARANDAS TRIVEDI

परमात्माके अन्तर्यामी होने का उपदेश।

Word-Meaning: - (महादेवः) महादेव [बड़ा प्रकाशमय] (इष्वासः) हिंसा हटानेवाला (अनुष्ठाता) साथ रहनेवाला परमात्मा (ऊर्ध्वायाः दिशः) ऊँची दिशा के (अन्तर्देशात्) मध्य देश से (एनम् अनु) उस [विद्वान्] के साथ (तिष्ठति) रहता है, और (एनम्) उस [विद्वान्] को (न) न... [म०२, ३] ॥१३॥
Connotation: - मन्त्र १-३ के समान है॥१२, १३॥
Footnote: १२, १३−(ऊर्ध्वायाः)उपरिवर्तमानायाः (महादेवम्) महाप्रकाशमयम्। अन्यत् पूर्ववत् स्पष्टं च ॥