Go To Mantra
Viewed 103 times

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वावात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥

Mantra Audio
Pad Path

स्वयम् । एनम् । अभिऽउदेत्य । ब्रूयात् । व्रात्य । क्व । अवात्सी: । व्रात्य । उदकम् । व्रात्य । तर्पयन्तु । व्रात्य । यथा । ते । प्रियम् । तथा । अस्तु । व्रात्य । यथा । ते । वश: । तथा । अस्तु । व्रात्य । यथा । ते । निऽकाम: । तथा । अस्तु । इति ॥११.२॥

Atharvaveda » Kand:15» Sukta:11» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

अतिथिसत्कार के विधान का उपदेश।

Word-Meaning: - (स्वयम्) आप ही (अभ्युदेत्य) उठके जाकर (एनम्) उस [अतिथि] से (ब्रूयात्) कहे−(व्रात्य) हेव्रात्य ! (क्व) कहाँ (आवात्सीः) [रात्रि में] तू रहा था ? (व्रात्य) हे व्रात्य ! (उदकम्) यह जल है, (व्रात्य) हे व्रात्य ! (तर्पयन्तु) वे [यह पदार्थ तुझे, अथवा, आप हमें] तृप्त करें, (व्रात्य) हे व्रात्य ! (यथा) जैसे (ते) तेरा (प्रियम्) प्रिय [अभीष्ट] हो (तथा) वैसा ही (अस्तु) होवे, (व्रात्य) हे व्रात्य (यथा) जैसे (ते) तेरी (वशः) प्रधानता हो (तथा अस्तु) वैसा होवे, (व्रात्य) हेव्रात्य ! (यथा) जैसे (ते) तेरी (निकामः) इच्छापूर्ति हो (तथा अस्तु इति) वैसाही होवे ॥२॥
Connotation: - गृहस्थों को चाहिये किजब कोई विद्वान् महामान्य अतिथि घर पर आवे, प्रीतिवचन, जल, अन्न आदि पदार्थोंसे उसकी सेवा करें ॥१, २॥यह दोनों मन्त्र महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका अतिथियज्ञविषय पृष्ठ २७१ में व्याख्यात हैं ॥
Footnote: २−(स्वयम्) आत्मना (एनम्) अतिथिम् (अभ्युदेत्य) अभिमुखमुत्थाय (ब्रूयात्) कथयेत् (व्रात्य) हेसद्व्रतधारिन् (क्व) कुत्र (अवात्सीः) निवासं कृतवानसि (व्रात्य) (उदकम्) जलम् (तर्पयन्तु) हर्षयन्तु एते पदार्था भवन्तम्, यद्वा भवन्तोऽस्मान् (यथा) येनप्रकारेण (ते) तव (प्रियम्) अभिमतम् (तथा) तेन प्रकारेण (अस्तु) भवतु (वशः)वशित्वम्। प्रधानत्वम् (निकामः) निरन्तरकामः। इच्छापूर्तिः (इति) पादपूरणे।अन्यत् पूर्ववत् ॥