Go To Mantra
Viewed 71 times

इ॒दं सु मे॑ नरःशृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः। ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षुवा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः। स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै॑ भवन्तु॒ माहिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ॥

Mantra Audio
Pad Path

इदम् । सु । मे । नर: । शृणुत । यया । आऽशिषा । दंपती इति दम्ऽपती । वामम् । अश्नुत: । ये । गन्धर्वा: । अप्सरस: । च । देवी: । एषु । वानस्पत्येषु । ये । अधि । तस्थु: । स्योना: । ते । अस्यै । वध्वै । भवन्तु । मा । हिंसिषु: । वहतुम् । उह्यमानम् ॥२.९॥

Atharvaveda » Kand:14» Sukta:2» Paryayah:0» Mantra:9


PANDIT KSHEMKARANDAS TRIVEDI

गृहआश्रम का उपदेश।

Word-Meaning: - (नरः) हे नरो ! (इदम्)अब (मे) मेरी [बात] (सु) अच्छे प्रकार (शृणुत) सुनो, (यया आशिषा) जिस आशीर्वादसे (दम्पती) पति-पत्नी दोनों, (वामम्) श्रेष्ठ पदार्थ (अश्नुतः) पाते हैं। (ये)जो (गन्धर्वाः) गन्धर्व [वेदवाणी के धारण करनेवाले पुरुष] (च) और (अप्सरसः)कामों में व्यापक रहनेवाली (देवीः) देवियाँ [बड़ी गुणवती स्त्रियाँ] हैं, और (ये) जो पुरुष (एषु) इन (वानस्पत्येषु) सेवनीय शास्त्र के रक्षक जन सेसंबन्धवाले पुरुषों में (अधि) ऊँचे (तस्थुः) ठहरते हैं। वे सब [हे वधू !] (तेअस्यै वध्वै) तुझ इस वधू के लिये (स्योनाः) सुखदायक (भवन्तु) होवें, वे (उह्यमानम्) चलते हुए (वहतुम्) रथ [रथसमान गृहकार्य] को (मा हिंसिषुः) न हानिपहुँचावें ॥९॥
Connotation: - सब निपुण विद्वान्पुरुष और गृहकार्य में चतुर स्त्रियाँ मिलकर ऐसा प्रयत्न करें कि वे दोनोंस्त्री-पुरुष गृहाश्रम में यथावत् सिद्धि प्राप्त करें, और कभी उनके चलते हुएगृहकार्य में विघ्न न पड़ने पावे ॥९॥
Footnote: ९−(इदम्) इदानीम् (सु) सुविचारेण (मे) ममवाणीम् (नरः) हे नेतारः (शृणुत) आकर्णयत (यया) (आशिषा) आशीर्वादेन (दम्पती)जायापती (वामम्) श्रेष्ठं पदार्थम् (अश्नुतः) प्राप्नुतः (ये) (गन्धर्वाः) गांवेदवाणीं धरन्ति ते विद्वांसः (अप्सरसः) अपः कर्मनाम-निघ० २।१।सर्तेरप्पूर्वादसिः। उ–० ४।२३७। अपः+सृ गतौ-असि। अपांसि कर्माणि सरन्तिप्राप्नुवन्ति यास्ताः। कर्मकुशलाः स्त्रियः (देवीः) उत्तमगुणवत्यः (एषु)प्रसिद्धेषु (वानस्पत्येषु) वन्यते सेव्यते स वनः, तस्य पतिर्वनस्पतिः। [वनस्पते] वनस्य संभजनीयस्य शास्त्रस्य पालक-दयानन्दभाष्ये, यजु० २७।२१। ततः।दित्यदित्यादित्य०। पा० ४।१।८५। ण्य। संभजनीयस्य शास्त्रस्य पालकस्य जनस्यसम्बन्धिषु पुरुषेषु (ये) (अधि) उपरि (तस्थुः) तिष्ठन्ति (स्योनाः) सुखदायकाः (ते) तुभ्यम् (अस्यै) प्रसिद्धायै (वध्वै) पत्न्यै (भवन्तु) (मा हिंसिषुः) मानाशयन्तु (वहतुम्) वहनसाधनं रथतुल्यं गृहकार्यम् (उह्यमानम्) गम्यमानम् ॥