Go To Mantra
Viewed 76 times

कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति। त आव॑वृत्र॒न्त्सद॑नादृ॒तस्य॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

Mantra Audio
Pad Path

कृष्णम् । निऽयानम् । हरय: । सुऽपर्णा: । अप: । वसाना: । दिवम् । उत् । पतन्ति । ते । आ । अववृत्रन् । सदनात् । ऋतस्य। तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.९॥

Atharvaveda » Kand:13» Sukta:3» Paryayah:0» Mantra:9


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा का उपदेश।

Word-Meaning: - (हरयः) जल खींचनेवाली (सुपर्णाः) अच्छे प्रकार उड़नेवाली किरणें, (अपः) जल को (वसानाः) ओढ़कर, (कृष्णम्) खींचनेवाले (नियानम्) नित्य गमनस्थान अन्तरिक्ष में [होकर] (दिवम्) प्रकाशमय सूर्यमण्डल को (उत् पतन्ति) चढ़ जाती हैं। (ते) वे [किरणें] (ऋतस्य) जल के (सदनात्) स्थान [सूर्य] से (आ अववृत्रन्) [ईश्वरनियम के अनुसार] लौट आती हैं। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [मन्त्र १] ॥९॥
Connotation: - जिस ईश्वर ने सूर्य की किरणों को सूर्य तक जल खींचने, मेघ द्वारा बरसाने और सृष्टि के लिये उपकारी होने का सामर्थ्य दिया है, सब मनुष्य उसकी उपासना करें ॥९॥इस मन्त्र का (कृष्णं.... ऋतस्य) यह भाग आ चुका है-अ० ६।२२।१। तथा ९।१०।२२। और ऋग्० १।१६४।४७ ॥
Footnote: ९−कृष्णमित्यादि व्याख्यातम्-अ० ६।२२।—१। अत्र शब्दार्थो दीयते (कृष्णम्) आकर्षकम् (नियानम्) नित्यगमनस्थानमन्तरिक्षं प्रति (हरयः) रसं हरन्तः (सुपर्णाः) आदित्यरश्मयः-निरु० ७।२४। (अपः) जलानि (वसानाः) आच्छादयन्तः (दिवम्) प्रकाशमयं सूर्यमण्डलम् (उत्) उद्गत्य (पतन्ति) प्राप्नुवन्ति (ते) किरणाः (आ अववृत्रन्) आवर्तन्ते। आगच्छन्ति (सदनात्) गृहात्। सूर्यमण्डलात् (ऋतस्य) उदकस्य ॥