Go To Mantra
Viewed 147 times

यो अ॑न्ना॒दो अन्न॑पतिर्ब॒भूव॒ ब्रह्म॑ण॒स्पति॑रु॒त यः। भू॒तो भ॑वि॒ष्यद्भुव॑नस्य॒ यस्पतिः॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

Mantra Audio
Pad Path

य: । अन्नऽअद: । अन्नऽपति: । बभूव । ब्रह्मण: । पति: । उत । य: । भूत: । भविष्यत् । भुवनस्य । य: । पति: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.७॥

Atharvaveda » Kand:13» Sukta:3» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा का उपदेश।

Word-Meaning: - (यः) जो [परमेश्वर] (अन्नादः) अन्न का खिलानेवाला, (अन्नपतिः) अन्न का स्वामी, (उत) और (यः) जो (ब्रह्मणः) वेदज्ञान का (पतिः) रक्षक (बभूव) हुआ है, (यः) जो (भुवनस्य) संसार का (भूतः) अतीत काल में रहनेवाला और (भविष्यत्) आगे रहनेवाला (पतिः) स्वामी है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [म० १] ॥७॥
Connotation: - मन्त्र १ के समान ॥७॥
Footnote: ७−(यः) परमेश्वरः (अन्नादः) अन्नमादयति भक्षयतीति सः (अन्नपतिः) (बभूव) (ब्रह्मणः) वेदज्ञानस्य (पतिः) स्वामी (उत) अपि (यः) (भूतः) अतीतकाले भवः (भविष्यत्) अनागतकाले वर्तमानः (भुवनस्य) सत्तावतो लोकस्य (यः) (पतिः) ॥