Go To Mantra
Viewed 69 times

यस्मि॑न्वि॒राट्प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः। यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

Mantra Audio
Pad Path

यस्मिन् । विऽराट् । परमेऽस्थी । प्रजाऽपति: । अग्नि: । वैश्वानर: । सह । पङ्क्त्या । श्रित: । य: । परस्य । प्राणम् । परमस्य । तेज: । आऽददे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.५॥

Atharvaveda » Kand:13» Sukta:3» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा का उपदेश।

Word-Meaning: - (यस्मिन्) जिस [परमेश्वर] में (विराट्) विविध प्रकाशमान (परमेष्ठी) बड़ी स्थितिवाला [आकाश], (प्रजापतिः) प्रजापालक [सूर्य] और (वैश्वानरः) सब नायकों [रस ले चलनेवाली नाड़ी आदिकों] का हितकारी (अग्निः) अग्नि [जाठर अग्नि] (पङ्क्त्या सह) अपनी पङ्क्ति [श्रोणि] के सहित (श्रितः) ठहरा है, (यः) जिस [परमेश्वर] ने (परस्य) दूर पदार्थ के (प्राणम्) प्राण को और (परमस्य) सबसे ऊँचे पदार्थ के (तेजः) तेज को (आददे) अपने में ग्रहण किया है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [म० १] ॥५॥
Connotation: - मन्त्र १ के समान ॥५॥
Footnote: ५−(यस्मिन्) परमेश्वरे (विराट्) विविधं राजमानः (परमेष्ठी) परमस्थितिमान्। आकाशः (प्रजापतिः) प्रजापालकः सूर्यः (अग्निः) जाठराग्निः (वैश्वानरः) सर्वेषां नराणां नायकानां रसवाहकनाड्यादिकानां हितः (सह) (पङ्क्त्या) श्रेण्या (श्रितः) स्थितः (यः) परमेश्वरः (परस्य) दूरस्थपदार्थस्य (प्राणम्) जीवनम् (परमस्य) उच्चतमपदार्थस्य (तेजः) प्रकाशम् (आददे) स्वस्मिन् गृहीतवान् ॥