Go To Mantra
Viewed 97 times

यः प्राणे॑न॒ द्यावा॑पृथि॒वी त॒र्पय॑त्यपा॒नेन॑ समु॒द्रस्य॑ ज॒ठरं॒ यः पिप॑र्ति। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

Mantra Audio
Pad Path

य: । प्राणेन । द्यावापृथिवी इति । तर्पयति । अपानेन । समुद्रस्य । जठरम् । य: । पिपर्ति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.४॥

Atharvaveda » Kand:13» Sukta:3» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा का उपदेश।

Word-Meaning: - (यः) जो (प्राणेन) प्राण से (द्यावापृथिवी) सूर्य और भूमि को (तर्पयति) तृप्त करता है और (यः) जो (अपानेन) अपान वायु से (समुद्रस्य) समुद्र के (जठरम्) पेट को (पिपर्ति) भरता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [परमेश्वर] के लिये... [म० १] ॥४॥
Connotation: - मन्त्र १ के समान ॥४॥
Footnote: ४−(यः) परमेश्वरः (प्राणेन) श्वासेन (द्यावापृथिवी) सूर्यभूमिलोकौ (तर्पयति) तोषयति (अपानेन) प्रश्वासेन (समुद्रस्य) (जठरम्) उदरम् (यः) (पिपर्ति) पूरयति ॥