Go To Mantra

यस्मा॒द्वाता॑ ऋतु॒था पव॑न्ते॒ यस्मा॑त्समु॒द्रा अधि॑ वि॒क्षर॑न्ति। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

Mantra Audio
Pad Path

यस्मात् । वाता: । ऋतुऽथा । पवन्ते । यस्मात् । समुद्रा: । अधि । विऽक्षरन्ति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२॥

Atharvaveda » Kand:13» Sukta:3» Paryayah:0» Mantra:2


Reads 38 times

PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा का उपदेश।

Word-Meaning: - (यस्मात्) जिस [परमेश्वर] से (वाताः) पवन (ऋतुथा) ऋतुओं के अनुसार (पवन्ते) शुद्ध करते हैं, (यस्मात्) जिससे (समुद्राः) समुद्र (अधि) मर्यादा से (विक्षरन्ति) बहते रहते हैं। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [परमेश्वर] के लिये.... [म० १] ॥२॥
Connotation: - मन्त्र १ के समान ॥२॥
Footnote: २−(यस्मात्) परमेश्वरात् (वाताः) पवनाः (ऋतुथा) ऋतूननुसृत्य (पवन्ते) शोधयन्ति (यस्मात्) (समुद्राः) जलौघाः (अधि) अधिकृत्य। मर्यादामनुसृत्य (विक्षरन्ति) विविधं वहन्ति ॥