Go To Mantra
Viewed 159 times

स वरु॑णः सा॒यम॒ग्निर्भ॑वति॒ स मि॒त्रो भ॑वति प्रा॒तरु॒द्यन्। स स॑वि॒ता भू॒त्वान्तरि॑क्षेण याति॒ स इन्द्रो॑ भू॒त्वा त॑पति मध्य॒तो दिव॑म्। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च पाशान् ॥

Mantra Audio
Pad Path

स: । वरुण: । सायम् । अग्नि: । भवति । स: । म‍ित्र: । भवति । प्रात: । उत्ऽयन् । स: । सविता । भूत्वा । अन्तरिक्षेण । याति । य: । इन्द्र: । भूत्वा । तपति । मध्यत: । दिवम् । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१३॥

Atharvaveda » Kand:13» Sukta:3» Paryayah:0» Mantra:13


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा का उपदेश।

Word-Meaning: - (सः) वह (वरुणः) श्रेष्ठ परमात्मा (सायम्) सायङ्काल में (अग्निः) अग्नि [अग्निसमान तेजस्वी] (भवति) होता है, (सः) वह [परमेश्वर] (प्रातः) प्रातःकाल (उद्यन्) उदय होते हुए (मित्रः) स्नेहवान् सूर्य [के समान] (भवति) होता है। (सः) वह [परमेश्वर] (सविता) प्रेरणा करनेवाला सूर्य के समान (भूत्वा) होकर (अन्तरिक्षेण) अन्तरिक्ष के साथ (याति) चलता है, (सः) वह (इन्द्रः) परम ऐश्वर्यवान् (भूत्वा) होकर (मध्यतः) बीच से (दिवम्) सूर्यलोक को (तपति) तपाता है (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये.... [म० १] ॥१३॥
Connotation: - जो परमेश्वर सायंकाल के अग्नि, और प्रातःकाल और मध्याह्न के सूर्य समान प्रतापी है, वही इन सब में अन्तर्यामी है। उसके गुणों को जानकर आगे बढ़ो ॥१३॥
Footnote: १३−(सः) (वरुणः) श्रेष्ठः परमेश्वरः (सायम्) सूर्यास्ते (अग्निः) अग्नितुल्यः (भवति) (सः) परमेश्वरः (मित्रः) स्नेहवान् सूर्यो यथा (भवति) (प्रातः) प्रभाते (उद्यन्) उद्गच्छन् (सः) (सविता) प्राणिनां प्रेरकः सूर्यो यथा (भूत्वा) (अन्तरिक्षेण) आकाशेन सह (याति) गच्छति (सः) (इन्द्रः) परमैश्वर्यवान्। जगदीश्वरः (भूत्वा) (तपति) तापयति (मध्यतः) मध्यात् (दिवम्) सूर्यलोकम् ॥