Go To Mantra
Viewed 66 times

उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्। पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ॥

Mantra Audio
Pad Path

उच्चा । पतन्तम् । अरुणम् । सुऽपर्णम् । मध्ये । दिव: । तरणिम् । भ्राजमानम् । पश्याम । त्वा । सवितारम् । यम् । आहु: । अजस्रम् । ज्योति: । यत् । अविन्दत् । अत्त्रि: ॥२.३६॥

Atharvaveda » Kand:13» Sukta:2» Paryayah:0» Mantra:36


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा के विषय का उपदेश।

Word-Meaning: - (उच्चा) ऊँचे (पतन्तम्) ऐश्वर्यवान् होते हुए, (अरुणम्) सर्वव्यापक, (सुपर्णम्) बड़े पालनेवाले, (दिवः) व्यवहार के (मध्ये) मध्य (तरणिम्) पार करनेवाले (भ्राजमानम्) प्रकाशमान, (सवितारम्) सर्वप्रेरक (त्वा) तुझ [परमेश्वर] को (पश्याम) हम देखें, (यम्) जिसको (अजस्रम्) निरन्तर (ज्योतिः) ज्योति (आहुः) वे [विद्वान् लोग] बताते हैं, (यत्) जिस [ज्योति] को (अत्त्रिः) निरन्तर ज्ञानी [योगी पुरुष] ने (अविन्दत्) पाया है ॥३६॥
Connotation: - जिस सर्वोपरि विराजमान, सर्वान्तर्यामी परमेश्वर का ध्यान करके योगी जन आनन्द पाते हैं, उसी की आराधना करके हम पुरुषार्थ के साथ उन्नति करें ॥३६॥
Footnote: ३६−(उच्चा) उच्चैः (पतन्तम्) ऐश्वर्यं प्राप्नुवन्तम् (अरुणम्) अर्त्तेश्च। उ० ३।६०। ऋ गतौ-उनन्, चित्। सर्वव्यापकम् (सुपर्णम्) शोभनं पर्णं पालनं यस्मात् तम् (मध्ये) (दिवः) प्रत्येकव्यवहारस्य (तरणिम्) तारकम् (भ्राजमानम्) दीप्यमानम् (पश्याम) अवलोकयाम (त्वा) (सवितारम्) सर्वप्रेरकम् (यम्) (आहुः) कथयन्ति विद्वांसः (अजस्रम्) निरन्तरम् (ज्योतिः) तेजः (यत्) (अविन्दत्) अलभत (अत्त्रिः) म० ४। निरन्तरज्ञानी योगिजनः ॥