Go To Mantra
Viewed 63 times

स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत। तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥

Mantra Audio
Pad Path

स: । यज्ञ: । प्रथम: । भूत: । भव्य: । अजायत । तस्मात् । ह । जज्ञे । इदम् । सर्वम् । यत् । किम् । च । इदम् । विऽरोचते । रोहितेन । ऋषिणा । आऽभृतम् ॥१.५५॥

Atharvaveda » Kand:13» Sukta:1» Paryayah:0» Mantra:55


PANDIT KSHEMKARANDAS TRIVEDI

जीवात्मा और परमात्मा का उपदेश।

Word-Meaning: - (सः) वह (प्रथमः) सबसे पहिला (भूतः) वर्तमान हुआ और (भव्यः) आगे वर्तमान रहनेवाला (यज्ञः) पूजनीय [परमेश्वर] (अजायत) प्रकट हुआ। (तस्मात् ह) उससे ही (इदं सर्वम्) यह सब (जज्ञे) उत्पन्न हुआ (यत् किं च) जो कुछ भी (इदम्) यह [जगत्] (ऋषिणा) ऋषि [बड़े ज्ञानी] (रोहितेन) सबके उत्पन्न करनेवाले [परमेश्वर] करके (आभृतम्) सब ओर से पाला गया (विरोचते) झलकता है ॥५५॥
Connotation: - जो अविनाशी परमात्मा भूत और भविष्यत् में वर्तमान रहता है, उसी ने अपने सामर्थ्य से यह सब जगत् रचा है। बुद्धिमान् लोग ऐसा निश्चय करके अपना सामर्थ्य बढ़ावें ॥५५॥
Footnote: ५५−(सः) प्रसिद्धः (यज्ञः) यजनीयः परमेश्वरः (प्रथमः) आदिमः (भूतः) भूतकाले भवः (भव्यः) भविष्यति भवः (अजायत) प्रादुरभवत् (तस्मात्) परमेश्वरात् (ह) एव (जज्ञे) प्रादुर्बभूव (इदम्) (सर्वम्) जगत् (यत्) (किं च) किमपि (इदम्) (विरोचते) विविधं दीप्यते दृश्यते (रोहितेन) सर्वोत्पादकेन (ऋषिणा) सर्वदर्शिना महाज्ञानिना (आभृतम्) समन्तात् पोषितम् ॥