Go To Mantra
Viewed 84 times

वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्। घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥

Mantra Audio
Pad Path

वेदिम् । भूमिम् । कल्पयित्वा । दिवम्‌ । कृत्वा । दक्षिणाम् । घ्रंसम् । तत् । अग्निम् । कृत्वा । चकार । विश्वम् । आत्मन्ऽवत् । वर्षेण । आज्येन। रोहित: ॥१.५२॥

Atharvaveda » Kand:13» Sukta:1» Paryayah:0» Mantra:52


PANDIT KSHEMKARANDAS TRIVEDI

जीवात्मा और परमात्मा का उपदेश।

Word-Meaning: - (भूमिम्) भूमि को (वेदिम्) वेदि [यज्ञकुण्ड] रूप (कल्पयित्वा) रचकर, (दिवम्) आकाश को (दक्षिणाम्) दक्षिणा [प्रतिष्ठा का दान] रूप (कृत्वा) बनाकर, (तत्) फिर (अग्निम्) अग्नि को (घ्रंसम्) तापरूप (कृत्वा) सिरजकर, (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (वर्षेण) वृष्टिरूप (आज्येन) घी से (आत्मन्वत्) आत्मावाला (विश्वम्) सब जगत् (चकार) बनाया ॥५२॥
Connotation: - परमात्मा ने भूमि, आकाश आदि आधार और अग्नि आदि पदार्थ बनाकर सब जगत् को आत्मबल देकर पुरुषार्थी बनाया है। उसी सर्वशक्तिमान् की भक्ति से पुरुषार्थी मनुष्य उच्च पद पावें ॥५२॥
Footnote: ५२−(वेदिम्) यज्ञकुण्डं यथा (भूमिम्) (कल्पयित्वा) रचयित्वा (दिवम्) आकाशम् (कृत्वा) विधाय (दक्षिणाम्) प्रतिष्ठादानं यथा (घ्रंसम्) म० ४६। तापं यथा (तत्) तदा (अग्निम्) सूर्यादिकम् (कृत्वा) (चकार) रचयामास (विश्वम्) सर्वं जगत् (आत्मन्वत्) अ० ४।१०।७। सात्मकं स्थावरजङ्गमात्मकम् (वर्षेण) वृष्टिरूपेण (आज्येन) घृतेन (रोहितः) सर्वोत्पादकः परमेश्वरः ॥