Go To Mantra
Viewed 135 times

अग्ने॑ स॒पत्ना॒नध॑रान्पादया॒स्मद्व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते। इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ॥

Mantra Audio
Pad Path

अग्ने । सऽपत्नान् । अधरान् । पादय । अस्मत् । व्यथय । सऽजातम् । उत्ऽपिपानम् । बृहस्पते । इन्द्राग्नी इति । मित्रावरुणौ । अधरे । पद्यन्ताम् । अप्रतिऽमन्यूयमाना: ॥१.३१॥

Atharvaveda » Kand:13» Sukta:1» Paryayah:0» Mantra:31


PANDIT KSHEMKARANDAS TRIVEDI

जीवात्मा और परमात्मा का उपदेश।

Word-Meaning: - (अग्ने) हे प्रतापी राजन् ! (सपत्नान्) वैरियों को (अस्मत्) हम से (अधरान्) नीचे (पादय) गिरा दे, (बृहस्पते) हे बड़ी विद्याओं के स्वामी ! [राजन्] (उत्पिपानम्) टेढ़े चढ़ते हुए (सजातम्) समान जन्मवाले [भाई बन्धु] को (व्यथय) पीड़ा दे। (इन्द्राग्नी) हे सूर्य और बिजुली [के समान प्रताप और स्फूर्तिवाले !] (मित्रावरुणौ) हे प्राण और अपान ! [के समान सुखदायक और दुःखनाशक पुरुष] (अप्रतिमन्यूयमानाः) [हमारे] प्रतिकूल क्रोध न कर सकने योग्य [शत्रु लोग] (अधरे) नीचे होकर (पद्यन्ताम्) गिर जावें ॥३१॥
Connotation: - विद्वान् प्रतापी राजा पक्षपात छोड़कर धर्मविरोधी दुराचारी बन्धु आदि को भी अवश्य दण्ड देकर वश में रक्खे ॥३१॥
Footnote: ३१−(अग्ने) हे प्रतापिन् राजन् (सपत्नान्) (अधरान्) नीचान्। पामरान् (पादय) पातय (अस्मत्) अस्माकं सकाशात् (व्यथय) पीडय (सजातम्) समानजन्मानं बन्ध्वादिकम् (उत्पिपानम्) अ० ५।२०।७। पि गतौ यङि शानचि छान्दसं रूपम्। उत्पेपीयमानम्। कुटिलमुद्गच्छन्तम् (बृहस्पते) बृहतीनां विद्यानां स्वामिन् (इन्द्राग्नी) सूर्यविद्युतौ यथा प्रतापिन् स्फूर्तिमन् (मित्रावरुणौ) प्राणापानवत् सुखप्रद दुःखनाशक (अधरे) पामराः सन्तः (पद्यन्ताम्) अधोगच्छन्तु (अप्रतिमन्यूयमानाः) कण्ड्वादिभ्यो यक्। पा० ३।१।२७। मन्यु-यक्। अस्माकं प्रतिकूलं क्रोधं कर्तुमशक्याः ॥