Go To Mantra

प्रि॒यं प॑शू॒नां भ॑वति॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑। अथो॑ व॒शाया॒स्तत्प्रि॒यं यद्दे॑व॒त्रा ह॒विः स्यात् ॥

Mantra Audio
Pad Path

प्रियम् । पशूनाम् । भवति । यत् । ब्रह्मऽभ्य: । प्रऽदीयते । अथो इति । वशाया: । तत् । प्रियम् । यत् । देवऽत्रा । हवि: । स्यात् ॥४.४०॥

Atharvaveda » Kand:12» Sukta:4» Paryayah:0» Mantra:40


Reads 38 times

PANDIT KSHEMKARANDAS TRIVEDI

वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।

Word-Meaning: - (पशूनाम्) सब प्राणियों का (प्रियम्) प्रिय [हित] (भवति) होता है, (यत्) जब (ब्रह्मभ्यः) ब्रह्मचारियों को (प्रदीयते) वह दी जाती है। (अथो) और (तत्) यह (वशायाः) वशा [कामनायोग्य वेदवाणी] का (प्रियम्) प्रिय [हित] है, (यत्) कि वह [वेदवाणी] (देवत्रा) विद्वानों में (हविः) ग्राह्य वस्तु (स्यात्) होवे ॥४०॥
Connotation: - ब्रह्मचर्य आदि विधि से वेदविद्या से दान और ग्रहण से सब संसार का हित होता है ॥४०॥
Footnote: ४०−(प्रियम्) हितम् (पशूनाम्) प्राणिनाम् (भवति) (यत्) यदा (ब्रह्मभ्यः) ब्रह्मचारिभ्यः (प्रदीयते) प्रकर्षेण दीयते वेदवाणी (अथो) अपि च (वशायाः) कमनीयाया वेदवाण्याः (तत्) प्रियम्। हितम् (यत्) (देवत्रा) देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्। पा० ५।४।५६। इति त्रा। विद्वत्सु (हविः) ग्राह्यं वस्तु (स्यात्) ॥