Go To Mantra
Viewed 151 times

यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्। अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ॥

Mantra Audio
Pad Path

यत् । अन्ये । शतम् । याचेयु: । ब्राह्मणा: । गोऽपतिम् । वशाम् । अथ । एनाम् । देवा: । अब्रुवन् । एवम् । ह । विदुष: । वशा॥४.२२॥

Atharvaveda » Kand:12» Sukta:4» Paryayah:0» Mantra:22


PANDIT KSHEMKARANDAS TRIVEDI

वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।

Word-Meaning: - (यत्) यदि (ब्राह्मणाः=ब्राह्मणेभ्यः) ब्राह्मणों [ब्रह्मचारियों] से (अन्ये) दूसरे [निर्बलेन्द्रिय] (शतम्) सौ [पुरुष] (गोपतिम्) पृथिवी की पालनेवाली (वशाम्) वशा [कामनायोग्य वेदवाणी] को (याचेयुः) माँगें। (अथ) तो (देवाः) देवताओं [विद्वानों] ने (एनाम्) इस [वेदवाणी] को (अब्रुवन्) बताया है−“(एवम्) इस प्रकार [पूरे-पूरे] (विदुषः) विद्वान् की (ह) ही (वशा) वशा [कामनायोग्य वेदवाणी] है ॥२२॥
Connotation: - दुर्बलेन्द्रिय अश्रद्धालु मनुष्य सैकड़ों मिलकर वेदवाणी से उपकार नहीं कर सकते, परन्तु पूर्ण विद्वान् जितेन्द्रिय ब्रह्मचारी अकेला ही संसार भर को लाभ पहुँचाता है ॥२२॥
Footnote: २२−(यत्) यदि (अन्ये) विरोधिनः। अब्राह्मणाः (शतम्) बहुसंख्याकाः (याचेयुः) प्रार्थयेरन् (ब्राह्मणाः) सुपां सुपो भवन्तीति वक्तव्यम्। वा० पा० ७।१।३९। इति पञ्चमीस्थाने प्रथमा। ब्राह्मणेभ्यः। ब्रह्मचारिभ्यः (गोपतिम्) पृथिवीपालिकाम् (वशाम्) कमनीयां वेदवाणीम् (अथ) तदा (एनाम्) वेदवाणीम् (देवाः) विद्वांसः (अब्रुवन्) अकथयन् (एवम्) अनेन प्रकारेण (ह) निश्चयेन (विदुषः) जानतः पुरुषस्य (वशा) ॥