Go To Mantra
Viewed 68 times

प्रि॒यं प्रि॒याणां॑ कृणवाम॒ तम॒स्ते य॑न्तु यत॒मे द्वि॒षन्ति॑। धे॒नुर॑न॒ड्वान्वयो॑वय आ॒यदे॒व पौरु॑षेय॒मप॑ मृ॒त्युं नु॑दन्तु ॥

Mantra Audio
Pad Path

प्रियम् । प्रियाणाम् । कृणवाम । तम: । ते । यन्तु । यतमे । द्विषन्ति । धेनु: । अनड्वान् । वय:ऽवय: । आऽयत् । एव । पौरुषेयम् । अप । मृत्युम् । नुदन्तु॥३.४९॥

Atharvaveda » Kand:12» Sukta:3» Paryayah:0» Mantra:49


PANDIT KSHEMKARANDAS TRIVEDI

परस्पर उन्नति करने का उपदेश।

Word-Meaning: - (प्रियाणाम्) अपने प्यारों का हम (प्रियम्) प्रिय [कर्म] (कृणवाम) करें (ते) वे [दुष्ट] (तमः) अन्धकार [कारागार] में (यन्तु) जावें (यतमे) जो कोई (द्विषन्ति) [हम से] वैर करते हैं। (धेनुः) दुधैल गाय, (अनड्वान्) छकड़ा ले चलनेवाला बैल और (आयत्) आता हुआ (वयोवयः) प्रत्येक अन्न (एव) निश्चय करके (पौरुषेयम्) पुरुष की (मृत्युम्) मृत्यु को (अप नुदन्तु) ढकेल देवें ॥४९॥
Connotation: - धर्मात्मा लोग धर्मात्मा हितकारियों से प्रिय व्यवहार करें और दुष्टों को कष्ट देते रहें, जिससे गौ, बैल, अन्न आदि आवश्यक पदार्थ बढ़कर संसार की वृद्धि करें ॥४९॥
Footnote: ४९−(प्रियम्) प्रीतिकरं कर्म (प्रियाणाम्) स्वहितकारकाणाम् (कृणवाम) कुर्याम (तमः) अन्धकारम्। कारागारम् (ते) दुष्टाः (यन्तु) गच्छन्तु (यतमे) ये केचित् (द्विषन्ति) वैरायन्ते (धेनुः) दोग्ध्री गौः (अनड्वान्) शकटवाहको बलीवर्दः (वयोवयः) प्रत्येकप्रकारमन्नम् (आयत्) इण् गतौ−शतृ। आगच्छत् (एव) निश्चयेन (पौरुषेयम्) पुरुष−ढञ्। मानुषम् (अप) दूरे (मृत्युम्) मरणम् (नुदन्तु) प्रेरयन्तु ॥