Go To Mantra

आप॑स्पुत्रासो अ॒भि सं वि॑शध्वमि॒मं जी॒वं जी॑वधन्याः स॒मेत्य॑। तासां॑ भजध्वम॒मृतं॒ यमा॒हुर्यमो॑द॒नं पच॑ति वां॒ जनि॑त्री ॥

Mantra Audio
Pad Path

आप:। पुत्रास: । अभि । सम् । विशध्वम् । इमम् । जीवम् । जीवऽधन्या: सम्ऽएत्य । तासाम् । भजध्वम् । अमृतम् । यम् । आहु: । यम् । ओदनम् । पचति । वाम् । जनित्री ॥३.४॥

Atharvaveda » Kand:12» Sukta:3» Paryayah:0» Mantra:4


Reads 43 times

PANDIT KSHEMKARANDAS TRIVEDI

परस्पर उन्नति करने का उपदेश।

Word-Meaning: - (पुत्रासः) हे पुत्रो ! [नरक से बचानेवालो !] (जीवधन्याः) जीवों में धन्य [बड़ाई योग्य] तुम सब ! (इमम् जीवम्) इस जीवते [जीवात्मा] से (समेत्य) समागम करके, (आपः=अपः) आप्त प्रजाओं में (अभि) सब ओर (सम्) मिलते हुए (विशध्वम्) प्रवेश करो। (तासाम्) उन [प्रजाओं] के बीच (अमृतम्) उस अमर [परमात्मा] को (भजध्वम्) तुम सब सेवो, (यम्) जिस को (ओदनम्) ओदन [सुख बरसानेवाला वा मेघरूप परमेश्वर] (आहुः) वे [विद्वान्] कहते हैं, (यम्) जिस को (वाम्) तुम दोनों की (जनित्रीः) उत्पन्न करनेवाली [जन्मव्यवस्था] (पचति) परिपक्व [दृढ़] करती है ॥४॥
Connotation: - हे मनुष्यो ! तुम अपने जीवित पुरुषार्थी आत्मा को पहिचानकर प्रजाओं को कष्टों से छुड़ाओ, और अविनाशी परमात्मा का सदा ध्यान रक्खो, उसने अपनी न्यायव्यवस्था से तुम को उत्तम स्त्री और पुरुष बनाया है ॥४॥
Footnote: ४−(आपः) द्वितीयार्थे जस्। अपः। आप्ताः प्रजाः−दयानन्दभाष्ये, यजु० ६।२७। (पुत्रासः) अ० १।११।५। पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः। रामायणे, २।१०७।१२। हे पुत्राः। नरकाद् रक्षकाः (अभि) सर्वतः (सम्) संगत्य (विशध्वम्) प्रविशत (इमम्) अन्तर्हितम् (जीवम्) जीवन्तं पुरुषार्थिनं प्राणिनम् (जीवधन्याः) हे जीवेषु श्लाघ्याः (समेत्य) समागत्य (तासाम्) अपाम्। प्रजानां मध्ये (अमृतम्) मरणरहितम्। अविनाशिनम् (यम्) (आहुः) कथयन्ति विद्वांसः (यम्) (ओदनम्) अ० ११।१।१७। सुखस्य वर्षकं मेघरूपं वा परमात्मानम्। ओदनो मेघः−निघ० १।१०। (पचति) दृढं करोति (वाम्) युवयोः (जनित्री) जनयित्री। जन्मव्यवस्था ॥