यद्य॑ज्जा॒या पच॑ति॒ त्वत्परः॑परः॒ पति॑र्वा जाये॒ त्वत्ति॒रः। सं तत्सृ॑जेथां स॒ह वां॒ तद॑स्तु संपा॒दय॑न्तौ स॒ह लो॒कमेक॑म् ॥
यत्ऽयत् । जाया । पचति । त्वत् । पर:ऽपर: । पति: । वा । जाये । त्वत् । तिर: । सम् । तत् । सृजेथाम् । सह । वाम् । तत् । अस्तु । सम्ऽपादयन्तौ । सह । लोकम् । एकम्॥३.३९॥
PANDIT KSHEMKARANDAS TRIVEDI
परस्पर उन्नति करने का उपदेश।
