Go To Mantra
Viewed 69 times

पू॒ताः प॒वित्रैः॑ पवन्ते अ॒भ्राद्दिवं॑ च॒ यन्ति॑ पृथि॒वीं च॑ लो॒कान्। ता जी॑व॒ला जी॒वध॑न्याः प्रति॒ष्ठाः पात्र॒ आसि॑क्ताः॒ पर्य॒ग्निरि॑न्धाम् ॥

Mantra Audio
Pad Path

पूता: । पवित्रै: । पवन्ते । अभ्रात् । दिवम् । च । यन्ति । पृथिवीम् । च । लोकान् । ता: । जीवला: । जीवऽधन्या: । प्रतिऽस्था: । पात्रे । आऽसिक्ता: । परि । अग्नि: । इन्धाम् ॥३.२६॥

Atharvaveda » Kand:12» Sukta:3» Paryayah:0» Mantra:25


PANDIT KSHEMKARANDAS TRIVEDI

परस्पर उन्नति करने का उपदेश।

Word-Meaning: - (पवित्रैः) शुद्ध व्यवहारों से (पूताः) शुद्ध किये गये [प्रजाजन−मन्त्र २७] (अभ्रात्) उपाय से (पवन्ते) [दूसरों को] शुद्ध करते हैं, वे (दिवम्) जय की इच्छा को (च) और (पृथिवीम्) प्रख्यात विद्या को (च) और (लोकान्) दर्शनीय घरों को (यन्ति) प्राप्त होते हैं। (ताः) उन (जीवलाः) जीवते हुए, (जीवधन्याः) जीवों में धन्य, (प्रतिष्ठाः) दृढ़ जमे हुए, (पात्रे) रक्षासाधन [ब्रह्म] मे (आसिक्ताः) भली-भाँति सींचे हुए [प्रजा जनों] को (अग्निः) प्रकाशस्वरूप परमेश्वर (परि) सब ओर से (इन्धाम्) प्रकाशमान करे ॥२५॥
Connotation: - जो स्त्री-पुरुष अपने शुद्ध आचरणों से जय पाने के लिये उत्तम विद्याएँ और उत्तम गुण प्राप्त करते हैं, उन पुरुषार्थी प्रशंसनीय जनों को परमेश्वर अपने नियम से कीर्तिमान् करता है ॥२५॥
Footnote: २५−(पूताः) शोधिताः−म० २७। (पवित्रैः) शुद्धाचारैः (पवन्ते) शोधयन्ति (अभ्रात्) अभ्र गतौ−अप्। ल्यब्लोपे कर्मण्युपसंख्यानम्। वा० पा० ३।२।२८। अभ्रमुपायं संसाध्य (दिवम्) विजिगीषाम् (च) (यन्ति) प्राप्नुवन्ति (पृथिवीम्) प्रख्यातां विद्याम् (च) (लोकान्) दर्शनीयान् निवासान्, (ताः) प्रजाः−मा २७ (जीवलाः) अ० ६।५९।३। सिध्मादिभ्यश्च। पा० ५।२।९७। जीव्−लच् मत्वर्थे। जीवनयुक्ताः (जीवधन्याः) जीवेषु प्रशस्ताः (प्रतिष्ठाः) प्रतिष्ठां प्राप्ताः (पात्रे) रक्षासाधने ब्रह्मणि (आसिक्ताः) समन्तात् सेचनयुक्ताः (परि) सर्वतः (अग्निः) प्रकाशस्वरूपः परमेश्वरः (इन्धाम्) दीपयतु ॥