Go To Mantra
Viewed 77 times

उत्त॑रं रा॒ष्ट्रं प्र॒जयो॑त्त॒राव॑द्दि॒शामुदी॑ची कृणवन्नो॒ अग्र॑म्। पाङ्क्तं॒ छन्दः॒ पुरु॑षो बभूव॒ विश्वै॑र्विश्वा॒ङ्गैः स॒ह सं भ॑वेम ॥

Mantra Audio
Pad Path

उत्तरम् । राष्ट्रम् । प्रऽजया । उत्तरऽवत् । दिशाम् । उदीची । कृणवत् । न: । अग्रम् । पाङ्क्तम् । छन्द: । पुरुष: । बभूव । विश्वै । विश्वऽअङ्गै: । सह । सम् । भवेम ॥३.१०॥

Atharvaveda » Kand:12» Sukta:3» Paryayah:0» Mantra:10


PANDIT KSHEMKARANDAS TRIVEDI

परस्पर उन्नति करने का उपदेश।

Word-Meaning: - (दिशाम्) दिशाओं के बीच (उदीची) बायीं [दिशा] (नः) हमारे (उत्तरम्) अधिक उत्तम (राष्ट्रम्) राज्य को (प्रजया) प्रजा के साथ (उत्तरावत्) अधिक उत्तम व्यवहारवाला और (अग्रम्) अगुआ (कृणवत्) करे। (पुरुषः) पुरुष ने (पाङ्क्तिम्) विस्तार वा गौरव से युक्त (छन्दः) स्वतन्त्रता को (बभूव) पाया है, (विश्वाङ्गैः) सब उपायोंवाले (विश्वैः सह) सब [विद्वानों] के साथ (सं भवेम) हम शक्तिमान् होवें ॥१०॥
Connotation: - सब स्त्री-पुरुष अन्य दिशाओं के समान बायीं दिशा में धर्म से राज्य बढ़ाकर कीर्ति और स्वतन्त्रता के साथ विद्वानों के समागम से कीर्तिमान् होवें ॥१०॥
Footnote: १०−(उत्तरम्) उत्तमतरम् (राष्ट्रम्) राज्यम् (प्रजया) प्रजासमूहेन सह (उत्तरावत्) मतौ बह्वचोऽनजिरादीनाम्। पा० ६।–३।११९। इति दीर्घः। अधिकोत्तमव्यवहारयुक्तम् (दिशाम्) दिशानां मध्ये (उदीची) अ० ३।२७।४। वामभागवर्तमाना दिशा (कृणवत्) कुर्यात् (नः) अस्माकम् (अग्रम्) प्रधानम् (पाङ्क्तम्) पचि विस्तारे व्यक्तीकरणे च−क्तिन्। पङ्क्ति−अण्। पङ्क्त्या विस्तारेण गौरवेण वा युक्तम् (छन्दः) छदि आवरणे−असुन्। स्वातन्त्र्यम् (पुरुषः) मनुष्यः (बभूव) भू प्राप्तौ। प्राप (विश्वैः) सर्वैर्विद्वद्भिः (विश्वाङ्गैः) सर्वोपाययुक्तैः (सह) (संभवेम) शक्ता भवेम ॥