Viewed 68 times
इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्। तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥
Pad Path
इषीकाम् । जरतीम् । इष्ट्वा । तिल्पिञ्जम् । दण्डनम् । नडम् । तम् । इन्द्र: । इध्मम् । कृत्वा । यमस्य । अग्निम् । नि:ऽआदधौ ॥२.५४॥
Atharvaveda » Kand:12» Sukta:2» Paryayah:0» Mantra:54
PANDIT KSHEMKARANDAS TRIVEDI
राजा और प्रजा के कर्तव्य का उपदेश।
Word-Meaning: - (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले जगदीश्वर] ने (जरतीम्) स्तुतियोग्य (इषीकाम्) प्राप्तियोग्य [वेदवाणी] (इष्ट्वा) देकर और (तिल्पिञ्जम्) गति अर्थात् प्रयत्न के निवासवाले (दण्डनम्) दण्डव्यवहार और (नडम्) प्रबन्धव्यवहार को (इध्मम्) प्रकाशमान (कृत्वा) करके (यमस्य) न्यायाधीश के (तम्) उस (अग्निम्) प्रताप को (निरादधौ) निश्चय करके ठहराया है ॥५४॥
Connotation: - परमात्मा ने वेद द्वारा समस्त विद्याओं और नियमों का प्रकाश करके बताया है कि जो न्यायी मनुष्य ईश्वरनियम पर चलते हैं, वे जगत् में प्रतापी होते हैं ॥५४॥
Footnote: ५४−(इषीकाम्) ईष गतौ हिंसने च−ईकन्, टाप्। प्राप्तव्यां−वेदवाणीम् (जरतीम्) जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। जीवतेरतृन्। पा० ३।२।१०४। जॄ स्तुतौ−अतृन्=अत्, ङीप्। स्तुत्याम् (इष्ट्वा) यज्ञे दाने। दत्त्वा (तिल्पिञ्जम्) तिल गतौ स्निग्धीभावे च−क्विप्+पिजि हिंसाबलादाननिकेतनेषु−अच्। मतेः प्रयत्नस्य निवासम् (दण्डनम्) दण्डपातव्यवहारम् (नडम्) नल बन्धे−अच्, लस्य डः। प्रबन्धम् (तम्) प्रसिद्धम् (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (इध्मम्) प्रकाशमानम् (कृत्वा) (यमस्य) न्यायाधीशस्य (अग्निम्) प्रतापम् (निरादधौ) निश्चयेन सम्यक् स्थापितवान् ॥
