Go To Mantra

इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्। तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ॥

Mantra Audio
Pad Path

इमम् । इन्द्रम् । वह्निम् । पप्रिम् । अनुऽआरभध्वम् । स: । व: । नि: । वक्षत् । दु:ऽइतात्। अवद्यात् । तेन । अप । हत । शरुम् । आऽपतन्तम् । तेन । रुद्रस्य । परि । पात । अस्ताम्॥२.४७॥

Atharvaveda » Kand:12» Sukta:2» Paryayah:0» Mantra:47


Reads 44 times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - [हे मनुष्यों !] (वह्निम्) सब को चलानेवाले, (पप्रिम्) पूर्ण करनेवाले (इमम्) इस (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले जगदीश्वर] का (अन्वारभध्वम्) निरन्तर सहारा लो, (सः) वह (वः) तुम को (अवद्यात्) निन्दा से और (दुरितात्) कष्ट से (निः वक्षत्) निकालेगा। (तेन) उस [परमेश्वर] के साथ ही, (आपतन्तम्) आ पड़ते हुए (शरुम्) वज्र को (अप हत) नष्ट कर दो, (तेन) उसी के साथ, (रुद्रस्य) ज्ञाननाशक [शत्रु] के (अस्ताम्) चलाये हुए [तीर] को (परि पात) पृथक् रक्खो ॥४७॥
Connotation: - जो मनुष्य परमात्मा का आश्रय लेकर अपना कर्त्तव्य करते हैं, वे बुराइयों से बचकर दुष्टों के फन्दों में नहीं फँसते ॥४७॥
Footnote: ४७−[इमम्] पूर्वोक्तम् (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (वह्निम्) सर्ववोढारम् (पप्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। प्रा पूरणे−किन्। पूरकम् (अन्वारभध्वम्) निरन्तरमवलम्बध्वम् (सः) परमेश्वरः (वः) युष्मान् (निर्वक्षत्) वहतेर्लेटि सिप्। निर्वहेत् (दुरितात्) कष्टात् (अवद्यात्) निन्द्यव्यवहारात् (तेन) इन्द्रेण सह (अपहत) नाशयत (शरुम्) वज्रम् (आपतन्तम्) (तेन) (रुद्रस्य) अ० २।२७।६। रु गतौ−क्विप्, तुक्+रु वधे−ड। रुत् ज्ञानं रवते नाशयतीति रुद्रः, तस्य ज्ञाननाशकस्य शत्रोः (परि) पृथग्भावे (पात) रक्षत (अस्ताम्) क्षिप्तामिषुम् ॥