Go To Mantra
Viewed 66 times

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ। तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥

Mantra Audio
Pad Path

आ । रोहत । आयु: । जरसम् । वृणाना: । अनुऽपूर्वम् । यतमाना: । यति । स्थ । तान् । व: । त्वष्टा । सुऽजनिमा । सऽजोषा: । सर्वम् । आयु: । नयतु । जीवनाय ॥२.२४॥

Atharvaveda » Kand:12» Sukta:2» Paryayah:0» Mantra:24


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - [हे मनुष्यो !] (यति स्थ) जितने तुम हो, [वे तुम] (अनुपूर्वम्) लगातार (यतमानाः) यत्न करते हुए, (जरसम्) स्तुतियुक्त (आयुः) जीवन (वृणानाः) चाहते हुए (आ रोहत) ऊँचे चढ़ो। (सुजनिमा) सुन्दर जन्म देनेवाला (सजोषाः) समान प्रीतिवाला (त्वष्टा) कर्ता [परमेश्वर] (तान् वः) उन तुम को (सर्वम् आयुः) पूर्ण आयु (जीवनाय) उत्तम जीवन के लिये (नयतु) प्राप्त करावे ॥२४॥
Connotation: - जो मनुष्य निरन्तर उपाय करके परोपकार से संसार में कीर्ति बढ़ाते हैं, वे शूर परमात्मा के नियम से उच्च पद पाते जाते हैं ॥२४॥ यह मन्त्र कुछ भेद से ऋग्वेद में है १०।१८।६ ॥
Footnote: २४−(आ रोहत) अधितिष्ठत (आयुः) जीवनम् (जरसम्) अ० १।३०।३। जॄ स्तुतौ−असुन्, जरस्−अर्शआद्यच्। जरया स्तुत्या युक्तम्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः−निरु० १०।८। (वृणानाः) संभजमानाः (अनुपूर्वम्) यथाक्रमम् (यतमानाः) प्रयत्नं कुर्वन्तः (यति) यत्−छान्दसो डतिः। यत्संख्याकाः। यावन्तः (स्थ) भवथ (तान्) तादृशान् (वः) युष्मान् (त्वष्टा) कर्ता परमेश्वरः (सुजनिमा) जनिमृङ्भ्यामिमनिन्। उ० ४।१४९। जन जनने प्रादुर्भावे च−इमनिन्। शोभनानि कीर्तनस्मरणादिना सुखहेतुभूतानि जनिमानि जन्मानि यस्मात् तादृशः (सजोषाः) समानप्रीतिः (सर्वम्) सम्पूर्णम् (आयुः) जीवनम् (नयतु) प्रापयतु (जीवनाय) उत्तमजीवनप्राप्तये ॥