अ॒दो यद्दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द्दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम्। आ त्वा॑ सुभू॒तम॑विशत्त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः ॥
अद: । यत् । देवि । प्रथमाना । पुरस्तात् । देवै: । उक्ता । विऽअसर्प: । महिऽत्वम् । आ । त्वा । सुऽभूतम् । अविशत् । तदानीम् । अकल्पयथा: । प्रऽदिश: । चतस्र: ॥१.५५॥
PANDIT KSHEMKARANDAS TRIVEDI
राज्य की रक्षा का उपदेश।
