Go To Mantra

ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे। यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ॥

Mantra Audio
Pad Path

ये । ते । पन्थान: । बहव: । जनऽअयना: । रथस्य । वर्त्म । अनस: । च । यातवे । यै: । सम्ऽचरन्ति । उभये । भद्रऽपापा: । तम् । पन्थानम् । जयेम । अनमित्रम् । अतस्करम् । यत् । शिवम् । तेन । न: । मृड ॥१.४७॥

Atharvaveda » Kand:12» Sukta:1» Paryayah:0» Mantra:47


Reads 42 times

PANDIT KSHEMKARANDAS TRIVEDI

राज्य की रक्षा का उपदेश।

Word-Meaning: - (ये) जो (ते) तेरे (बहवः) बहुत से (पन्थानः) मार्ग (जनायनाः) मनुष्यों के चलने योग्य हैं, [और जो] (रथस्य) रथ के (च) और (अनसः) छकड़े [वा अन्न] के (यातवे) चलने के लिये (वर्त्म) मार्ग है। (यैः) जिनसे (उभये) दोनों (भद्रपापाः) भले और बुरे [प्राणी] (संचरन्ति) चले चलते हैं, (तम्) उस (अनमित्रम्) शत्रुरहित और (अतस्करम्) तस्करशून्य (पन्थानम्) मार्ग को (जयेम) हम जीतें, (यत्) जो कुछ (शिवम्) मङ्गल है, (तेन) उससे (नः) हमें (मृड) सुखी कर ॥४७॥
Connotation: - जो मनुष्य पृथिवी पर ऊँचे-नीचे, भले-बुरे मार्गो का विचार करके सुमार्ग पर चलते हैं, वे कुमार्गियों से बचकर सदा सुखी रहते हैं ॥४७॥
Footnote: ४७−(ये) (ते) तव (पन्थानः) मार्गाः (बहवः) नानाप्रकाराः (जनायनाः) जन+अयनाः। मनुष्यैर्गन्तुं योग्याः (रथस्य) रमणीययानस्य (वर्त्म) मार्गः (अनसः) अन जीवने−असुन्। शकटस्य। अन्नस्य। (च) (यातवे) यातुम् (यैः) मार्गैः (संचरन्ति) विचरन्ति (उभये) द्वित्वविशिष्टाः (भद्रपापाः) साध्वसाधवः (तम्) पन्थानम् (जयेम) जयेन प्राप्नुयाम (अनमित्रम्) अशत्रुम् (अतस्करम्) अचौरम्। अन्यत् पूर्ववत्−म० ४६ ॥