जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्। स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्फुरन्ती ॥
जनम् । बिभ्रती । बहुऽधा । विऽवाचसम् । नानाऽधर्माणम् । पृथिवी । यथाऽओकसम् । सहस्रम् । धारा: । द्रविणस्य । मे । दुहाम् । ध्रुवाऽइव । धेनु: । अनपऽस्फुरन्ती ॥१.४५॥
PANDIT KSHEMKARANDAS TRIVEDI
राज्य की रक्षा का उपदेश।
