Go To Mantra
Viewed 70 times

यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यैलबाः। यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्यां॒ वद॑ति दुन्दु॒भिः। सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ॥

Mantra Audio
Pad Path

यस्याम् । गायन्ति । नृत्यन्ति । भूम्याम् । मर्त्या: । विऽऐलबा: । युध्यन्ते । यस्याम् । आऽक्रन्द: । यस्याम् । वदति । दुन्दुभि: । सा । न: । भूमि: । प्र । नुदताम् । सऽपत्नान् । असपत्नम् । मा । पृथिवी । कृणोतु ॥१.४१॥

Atharvaveda » Kand:12» Sukta:1» Paryayah:0» Mantra:41


PANDIT KSHEMKARANDAS TRIVEDI

राज्य की रक्षा का उपदेश।

Word-Meaning: - (यस्यां भूम्याम्) जिस भूमि पर (व्यैलबाः) विविध प्रकार वाणियों के बोलनेवाले (मर्त्याः) मनुष्य (गायन्ति) गाते हैं और (नृत्यन्ति) नाचते हैं। (यस्यां भूम्याम्) जिस भूमि पर (आक्रन्दः) कोलाहल करनेवाले [योद्धा] (युध्यन्ते) लड़ते हैं, (यस्याम्) जिस पर (दुन्दुभिः) ढोल (वदति) बजता है। (सा भूमिः) वह भूमि (नः) हमारे (सपत्नान्) वैरियों को (प्र णुदताम्) हटा देवे, (पृथिवी) पृथिवी (मा) मुझ को (असपत्नम्) बिना शत्रु (कृणोतु) करे ॥४१॥
Connotation: - जिस पृथिवी पर मनुष्य ऊँचे, नीचे और मध्यम स्वर से गाते, नाचते और बाजे बजाकर युद्ध करते हैं, वहाँ पर धर्मात्मा लोग निर्विघ्न होकर सुख प्राप्त करें ॥४१॥
Footnote: ४१−(यस्याम्) (गायन्ति) गानं कुर्वन्ति (नृत्यन्ति) नृत्यं कुर्वन्ति (भूम्याम्) (मर्त्याः) मनुष्याः (व्यैलबाः) इला=वाक्। वि+इला−अण् समूहार्थे+वण शब्दे−ड। विविधमिलानां वाचां शब्दयितारः (युध्यन्ते) संप्रहरन्ति (यस्याम्) (आक्रन्दः) क्रदि आह्वाने रोदने च−क्विप्। कोलाहलशीलाः (यस्याम्) (वदति) ध्वनति (दुन्दुभिः) बृहड्ढक्का (सा) (नः) अस्माकम् (भूमिः) (प्रणुदताम्) प्रेरयतु (सपत्नान्) शत्रून् (असपत्नम्) अशत्रुम् (मा) माम् (पृथिवी) (कृणोतु) करोतु ॥