Go To Mantra
Viewed 71 times

यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥

Mantra Audio
Pad Path

यस्याम् । वेदिम् । परिऽगृह्णन्ति । भूम्याम् । यस्याम् । यज्ञम् । तन्वते । विश्वऽकर्माण: । यस्याम् । मीयन्ते । स्वरव: । पृथिव्याम् । ऊर्ध्वा: । शुक्रा: । आऽहुत्या: । पुरस्तात् । सा । न: । भूमि: । वर्धयत् । वर्धमाना ॥१.१३॥

Atharvaveda » Kand:12» Sukta:1» Paryayah:0» Mantra:13


PANDIT KSHEMKARANDAS TRIVEDI

राज्य की रक्षा का उपदेश।

Word-Meaning: - (यस्याम् भूम्याम्) जिस भूमि पर (विश्वकर्माणः) विश्वकर्मा [सब कामों में चतुर] लोग (वेदिम्) वेदी [यज्ञस्थान] को (परिगृह्णन्ति) घेर लेते हैं, (यस्याम्) जिस [भूमि] पर (यज्ञम्) यज्ञ [देवपूजा, संगतिकरण और दानव्यवहार] को (तन्वते) फैलाते हैं। (यस्याम् पृथिव्याम्) जिस पृथिवी पर (ऊर्ध्वाः) ऊँचे और (शुक्राः) उजले (स्वरवः) विजयस्तम्भ (आहुत्याः) आहुति [पूर्णाहुति, यज्ञपूर्ति] से (पुरस्तात्) पहिले (मीयन्ते) गाढ़े जाते हैं। (सा) वह (वर्धमाना) बढ़ती हुई (भूमिः) भूमि (नः) हमें (वर्धयत्) बढ़ाती रहे ॥१३॥
Connotation: - मनुष्यों को उचित है कि कर्मकुशल लोगों के समान अपना कर्त्तव्य पूरा करके संसार में दृढ़ कीर्ति स्थापित करें ॥१३॥
Footnote: १३−(यस्याम्) (वेदिम्) परिष्कृतां यज्ञभूमिम् (परिगृह्णन्ति) परितः सीदन्ति (भूम्याम्) (यस्याम्) (यज्ञम्) देवपूजासंगतिकरणदानव्यवहारम् (तन्वते) विस्तारयन्ति (विश्वकर्माणः) सर्वकर्मकुशलाः (यस्याम्) (मीयन्ते) डुमिञ् प्रक्षेपणे। निक्षिप्यन्ते (पृथिव्याम्) (ऊर्ध्वाः) उन्नताः (शुक्राः) शुक्लाः (आहुत्याः) पूर्णयज्ञादित्यर्थः (पुरस्तात्) अग्रे (सा) (नः) अस्मान् (भूमिः) (वर्धयत्) वर्धयेत् (वर्धमाना) वृद्धिं गच्छन्ती ॥