Go To Mantra

तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥

Mantra Audio
Pad Path

तेषाम् । सर्वेषाम् । ईशाना: । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥११.२६॥

Atharvaveda » Kand:11» Sukta:9» Paryayah:0» Mantra:26


Reads 48 times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्त्तव्य का उपदेश।

Word-Meaning: - (तेषां सर्वेषाम्) उन सबों के (ईशानाः) शासक होकर, (मित्राः) हे प्रेरक (देवजनाः) विजयी जनो ! (यूयम्) तुम (उत् तिष्ठत) उठो और (संनह्यध्वम्) कवचों को पहिनो। (इमं सङ्ग्रामम्) इस संग्राम को (संजित्य) जीतकर (यथालोकम्) अपने-अपने लोकों [स्थानों] को (वि तिष्ठध्वम्) फैलकर ठहरो ॥२६॥
Connotation: - सब मनुष्य कर्मकुशल और पुरुषार्थी होकर अपने-अपने कर्तव्य करके अपने-अपने पद पर आनन्दित होवें ॥२६॥
Footnote: २६−(तेषाम्) (सर्वेषाम्) शत्रूणाम् (ईशानाः) ईश्वराः। नियामकाः सन्तः (उत्तिष्ठत) इत्यादयो व्याख्यातः-म० २। (इमम्) प्रस्तुतम् (सङ्ग्रामम्) युद्धम् (संजित्य) सम्यग् जित्वा (यथालोकम्) स्वस्वस्थानम् (वि तिष्ठध्वम्) समवप्रविभ्यः स्थः। पा० १।३।२˜२। इत्यात्मनेपदम्। विस्तारेण तिष्ठत ॥