Go To Mantra

विश्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑। विश्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

Mantra Audio
Pad Path

विश्वान् । देवान् । इदम् । ब्रूम: । सत्यऽसंधान् । ऋतऽवृध: । विश्वाभि: । पत्नीभि: । सह । ते । न: । मुञ्चन्तु । अंहस: ॥८.१९॥

Atharvaveda » Kand:11» Sukta:6» Paryayah:0» Mantra:19


Reads 44 times

PANDIT KSHEMKARANDAS TRIVEDI

कष्ट हटाने के लिये उपदेश।

Word-Meaning: - (इदम्) अब (विश्वान्) सब (देवान्) विजय चाहनेवालों, (सत्यसंधान्) सत्य प्रतिज्ञावालों और (ऋतवृधः) सत्य ज्ञान के बढ़ानेवालों का (ब्रूमः) हम कथन करते हैं। [अपनी] (विश्वाभिः) सब (पत्नीभिः सह) पत्नियों [वा पालनशक्तियों] के साथ (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥१९॥
Connotation: - मनुष्य वीर, सत्यवक्ता, सत्यकर्मी और सत्य विद्याओं के प्रचारक स्त्री-पुरुषों के सत्सङ्ग और सहाय से सुख बढ़ावें ॥१९॥
Footnote: १९−(विश्वान्) सर्वान् (देवान्) विजिगीषून् (इदम्) इदानीम् (सत्यसंधान्) सत्यप्रतिज्ञान् (ऋतवृधः) सत्यज्ञानस्य वर्धयितॄन् (पत्नीभिः) अ० २।१२।१। योषिद्भिः। पालनशक्तिभिः (सह) अन्यत् पूर्ववत् ॥