Go To Mantra

अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार। ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥

Mantra Audio
Pad Path

अभिऽक्रन्दन् । स्तनयन् । अरुण: । शितिङ्ग: । बृहत् । शेप: । अनु । भूमौ । जभार । ब्रह्मऽचारी । सिञ्चति । सानौ । रेत: । पृथिव्याम् । तेन । जीवन्ति । प्रऽदिश: । चतस्र: ॥७.१२॥

Atharvaveda » Kand:11» Sukta:5» Paryayah:0» Mantra:12


Reads 47 times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मचर्य के महत्त्व का उपदेश।

Word-Meaning: - (अभिक्रन्दन्) सब ओर शब्द करता हुआ, (स्तनयन्) गरजता हुआ, (शितिङ्गः) प्रकाश और अन्धकार में चलनेवाला, (अरुणः) गतिमान् [वा सूर्य के समान प्रतापी पुरुष] (भूमौ) भूमि पर (बृहत्) बड़ा (शेषः) उत्पादन सामर्थ्य (अनु) निरन्तर (जभार) लाया है। (ब्रह्मचारी) ब्रह्मचारी (पृथिव्याम्) पृथिवी के ऊपर (सानौ) पहाड़ के सम स्थान पर (रेतः) बीज (सिञ्चति) सींचता है, (तेन) उससे (चतस्रः) चारों (प्रदिशः) बड़ी दिशाएँ (जीवन्ति) जीवन करती हैं ॥१२॥
Connotation: - विद्वान् पुरुषार्थी ब्रह्मचारी यन्त्र, कला, नौका, यान, विमान आदि वृद्धि के अनेक साधनों से पृथिवी के जल, थल और पहाड़ों को उपजाऊ बनाता है ॥१२॥इस मन्त्र का चौथा पाद-अथर्व० ९।१०।१९, के पाद ४, तथा ऋग्वेद १।१६४।४२, पाद २ में है ॥
Footnote: १२−(अभिक्रन्दन्) अभितः शब्दं कुर्वन् (स्तनयन्) गर्जन् (अरुणः) अर्तेश्च। उ० ३।६०। ऋ गतौ-उनन्, स च चित्। गतिमान्। सूर्यः (शितिङ्गः) क्रमितमिशतिस्तम्भामत इच्च। उ० ४।१२२। शत हिंसायाम्-इन्, स च कित्, अत इकारः। खच्प्रकरणे गमेः सुप्युपसंख्यानम्। खच्च डिद् वा वक्तव्यः। वा० पा० ३।२।३८। शिति+गम-खच्, स च डित्। शितिः शुक्लः कृष्णश्च तयोर्मध्ये गच्छति यः सः। प्रकाशान्धकारयोर्मध्ये समानगमनः। शितिपात्-अ० ३।२९।१। (बृहत्) महत् (शेषः) अ० ४।३७।७। उत्पादनसामर्थ्यम् (अनु) निरन्तरम् (भूमौ) पृथिव्याम् (जभार) जहार। प्रापितवान् (सिञ्चति) वर्षति (सानौ) पर्वतस्थे समभूमिदेशे (रेतः) बीजम् (पृथिव्याम्) (तेन) कर्मणा (जीवन्ति) प्राणान् धारयन्ति (प्रदिशः) प्राच्याद्या महादिशः। तत्रत्याः प्राणिनः (चतस्रः) चतुःसंख्याकाः ॥