Go To Mantra
Viewed 68 times

एकं॒ पादं॒ नोत्खि॑दति सलि॒लाद्धं॒स उ॒च्चर॑न्। यद॒ङ्ग स तमु॑त्खि॒देन्नैवाद्य न श्वः स्या॑न्न रात्री॒ नाहः॑ स्या॒न्न व्युच्छेत्क॒दा च॒न ॥

Mantra Audio
Pad Path

एकम् । पादम् । न । उत् । खिदति । सलिलात् । हंस: । उत्ऽचरन् । यत् । अङ्ग । स: । तम् । उत्ऽखिदेत् । न । एव । अद्य । न । श्व: । स्यात् । न । रात्री । न । अह: । स्यात् । न । वि । उच्छेत् । कदा । चन ॥६.२१॥

Atharvaveda » Kand:11» Sukta:4» Paryayah:0» Mantra:21


PANDIT KSHEMKARANDAS TRIVEDI

प्राण की महिमा का उपदेश।

Word-Meaning: - (हंसः) हंस [सर्वव्यापक वा सर्वज्ञानी परमात्मा] (सलिलात्) समुद्र [समुद्रसमान अपने अगम्य सामर्थ्य] से (उच्चरन्) उदय होता हुआ (एकम्) एक [सत्य वा मुख्य] (पादम्) पाद [स्थितिनियम] को (न) नहीं (उत् खिदति) उखाड़ता है। (अङ्ग) हे विद्वान् ! (यत्) जो (सः) वह [परमात्मा] (तम्) उस [नियम] को (उत्खिदेत्) उखाड़ देवे, (न एव) न तो (अद्य) आज, (न) न (श्वः) कल (स्यात्) होवे, (न) न (रात्री) रात्री, (न) न (अहः) दिन (स्यात्) होवे, (न) न (कदा चन) कभी भी (वि उच्छेत्) प्रभात होवे ॥२१॥
Connotation: - जैसे हंस परमात्मा अपने अचल नियम से विचल न होकर सूर्य आदि को अपने केन्द्र पर ठहरा कर सब संसार का उपकार करता है, वैसे ही परमहंस, जितेन्द्रिय, विज्ञानी पुरुष सब प्राणियों का हित करता है ॥२१॥(हंस) शब्द का मिलान-अथर्व० १०।८।१७ तथा १८ में करो ॥
Footnote: २१−(एकम्) इण्भीकापा०। उ० ३।४३। इण् गतौ-कन्। व्यापकम्। सत्यम्। मुख्यम् (पादम्) पद गतौ स्थैर्ये च-घञ्। स्थितिनियमम् (न) निषेधे (उत् खिदति) उद्धरति। उत्क्षिपति (सलिलात्) अ० ९।१०।९। समुद्रादिवाऽगम्यसामर्थ्यात् (हंसः) अ० १०।८।१७। वृतॄवदि०। उ० ३।६२। हन हिंसागत्योः-स। पक्षिविशेषः। सूर्यः। परमात्मा। योगिभेदः। शरीरस्थवायुविशेषः। एवमादयः-शब्दकल्पद्रुमे (उच्चरन्) उद्गच्छन् (अङ्ग) संबोधने (सः) हंसः। परमात्मा (तम्) पादम्। स्थितिनियमम् (उत्खिदेत्) उत्क्षिपेत् (नैव) न कदापि (अद्य) वर्तमानं दिनम् (न) (श्वः) आगामिदिनम् (स्यात्) (न) (न) (रात्री) (न) (अहः) दिनम् (न) (वि उच्छेत्) व्युच्छनम्, उषसः प्रादुर्भावो भवेत् (कदाचन) कदापि ॥