Go To Mantra
Viewed 108 times

यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः। ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ॥

Mantra Audio
Pad Path

यथा । प्राण । बलिऽहृत: । तुभ्यम् । सर्वा: । प्रऽजा: । इमा: । एव । तस्मै । बलिम् । हरान् । य: । त्वा । शृणवत् । सुऽश्रव: ॥६.१९॥

Atharvaveda » Kand:11» Sukta:4» Paryayah:0» Mantra:19


PANDIT KSHEMKARANDAS TRIVEDI

प्राण की महिमा का उपदेश।

Word-Meaning: - (प्राण) हे प्राण ! [परमेश्वर] (यथा) जैसे (तुभ्यम्) तेरे लिये (इमाः) यह (सर्वाः) सब (प्रजाः) प्रजाएँ (बलिहृतः) भक्तिरूप उपहार देनेवाली हैं, (एव) वैसे ही (तस्मै) उस [पुरुष] के लिये (बलिम्) बलि [उपहार] (हरान्) वे लावें, (यः) जो पुरुष, (सुश्रवः) हे बड़ी कीर्तिवाले [परमेश्वर] (त्वा) तुझको (शृणवत्) सुने ॥१९॥
Connotation: - परमेश्वर की आज्ञा माननेवाला पुरुष सब प्राणियों को अपने वश में कर लेता है ॥१९॥
Footnote: १९−(यथा) येन प्रकारेण (प्राण) (बलिहृतः) बलेर्भक्तिरूपस्योपहारस्य हर्त्र्यः प्रापिकाः (तुभ्यम्) (सर्वाः) (प्रजाः) उत्पन्नाः प्राणिनः (इमाः) दृश्यमानाः (एव) तथैव (तस्मै) पुरुषाय (बलिम्) उपहारम् (हरान्) म० १८ (यः) पुरुषः (त्वा) त्वाम् (शृणवत्) लेटि, अडागमः। शृणुयात् (सुश्रवः) श्रु श्रवणे-असुन्। हे बहुकीर्त्ते ॥