Go To Mantra
Viewed 60 times

यस्ते॑ प्राणे॒दं वे॑द॒ यस्मिं॑श्चासि॒ प्रति॑ष्ठितः। सर्वे॒ तस्मै॑ ब॒लिं ह॑रान॒मुष्मिं॑ल्लो॒क उ॑त्त॒मे ॥

Mantra Audio
Pad Path

य:। ते । प्राण । इदम् । वेद । यस्मिन् । च । असि । प्रतिऽस्थित: । सर्वे । तस्मै । बलिम् । हरान् । अमुष्मिन् । लोके । उत्ऽतमे ॥६.१८॥

Atharvaveda » Kand:11» Sukta:4» Paryayah:0» Mantra:18


PANDIT KSHEMKARANDAS TRIVEDI

प्राण की महिमा का उपदेश।

Word-Meaning: - (प्राण) हे प्राण ! [जीवनदाता परमेश्वर] (यः) जो [पुरुष] (ते) तेरे (इदम्) इस [महत्त्व] को (वेद) जानता है, (च) और (यस्मिन्) जिस [पुरुष] में तू (प्रतिष्ठितः) दृढ़ ठहरा हुआ (असि) है। (सर्वे) सब [प्राणी] (अमुष्मिन्) उस (उत्तमे) उत्तम (लोके) लोक [स्थान] पर [वर्तमान] (तस्मै) उस [पुरुष] के लिये (बलिम्) बलि [उपहार] (हरान्) लावें ॥१८॥
Connotation: - जो मनुष्य परमेश्वर के महत्त्व को साक्षात् करके उसे अपने हृदय में दृढ़ करता है, वह पुरुष संसार में सबसे उच्च स्थान पाता है ॥१८॥
Footnote: १८−(यः) पुरुषः (ते) तव (प्राण) (इदम्) महत्त्वम् (वेद) जानाति (यस्मिन्) पुरुषे (च) (असि) (प्रतिष्ठितः) दृढं स्थितः (सर्वे) प्राणिनः (तस्मै) पुरुषाय (बलिम्) उपहारम् (हरान्) हरतेर्लेटि आडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः, संयोगान्तलोपः। हरन्तु प्रापयन्तु (अमुष्मिन्) तस्मिन् प्रसिद्धे (लोके) स्थाने वर्तमानाय (उत्तमे) श्रेष्ठे ॥