Go To Mantra
Viewed 116 times

प्रा॒णमा॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते। प्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॒ प्रति॑ष्ठितम् ॥

Mantra Audio
Pad Path

प्राणम् । आहु: । मातरिश्वानम् । वात: । ह । प्राण: । उच्यते । प्राणे । ह । भूतम् । भव्यम् । च । प्राणे । सर्वम् । प्रतिऽस्थितम् ॥६.१५॥

Atharvaveda » Kand:11» Sukta:4» Paryayah:0» Mantra:15


PANDIT KSHEMKARANDAS TRIVEDI

प्राण की महिमा का उपदेश।

Word-Meaning: - (प्राणम्) प्राण [जीवनदाता परमेश्वर] को (मातरिश्वानम्) आकाश में व्यापक [सूत्रात्मा वायु के समान] (आहुः) वे बताते हैं, (वातः) वायु (ह) भी (प्राणः) [जीवनदाता परमेश्वर] (उच्यते) कहा जाता है। (प्राणे) प्राण [परमेश्वर] में (ह) ही (भूतम्) बीता हुआ (च) और (भव्यम्) होनहार [वस्तु] और (प्राणे) प्राण [परमेश्वर] में (सर्वम्) सब [जगत्] (प्रतिष्ठितम्) टिका हुआ है ॥१५॥
Connotation: - महात्मा लोग अनुभव करते हैं कि परमात्मा ही सर्वशक्तिमान्, सर्वेश्वर और सर्वव्यापक है ॥१५॥
Footnote: १५−(प्राणम्) जीवनप्रदं परमेश्वरम् (आहुः) कथयन्ति (मातरिश्वानम्) अ० ५।१०।८। मातरि मानकर्तरि अन्तरिक्षे व्यापकं सूत्रात्मरूपम् (वातः) गमनशीलो वायुः (ह) अपि (प्राणः) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेः सुः। प्राणे। जीवनप्रदे परमेश्वरे (उच्यते) कथ्यते (प्राणे) परमात्मनि (ह) एव (भूतम्) व्यतीतं पदार्थजातम् (भव्यम्) भविष्यत्। उत्पत्स्यमानं वस्तु (च) (प्राणे) (सर्वम्) समस्तं जगत् (प्रतिष्ठितम्) आश्रितम् ॥