Viewed 70 times
प्रा॒णः प्र॒जा अनु॑ वस्ते पि॒ता पु॒त्रमि॑व प्रि॒यम्। प्रा॒णो ह॒ सर्व॑स्येश्व॒रो यच्च॑ प्रा॒णति॒ यच्च॒ न ॥
Pad Path
प्राण: । प्रऽजा: । अनु । वस्ते । पिता । पुत्रम्ऽइव । प्रियम् । प्राण: । ह । सर्वस्य । ईश्वर: । यत् । च । प्राणति । यत् । च । न ॥६.१०॥
Atharvaveda » Kand:11» Sukta:4» Paryayah:0» Mantra:10
PANDIT KSHEMKARANDAS TRIVEDI
प्राण की महिमा का उपदेश।
Word-Meaning: - (प्राणः) प्राण [जीवनदाता परमेश्वर] (प्रजाः) सब उत्पन्न प्राणियों को (अनु) निरन्तर (वस्ते) ढक लेता है, (इव) जैसे (पिता) पिता (प्रियम्) प्रिय (पुत्रम्) पुत्र को [वस्त्र आदि से]। (प्राणः) प्राण [परमेश्वर] (ह) ही (सर्वस्य) सबका (ईश्वरः) ईश्वर है, (यत् च) जो कुछ भी (प्राणति) श्वास लेता है, (यत् च) और जो (न) नहीं श्वास लेता है ॥१०॥
Connotation: - मनुष्य जगत्स्वामी परमेश्वर को सब चर और अचर सृष्टि में व्यापक जानकर अपना ऐश्वर्य बढ़ावे ॥१०॥
Footnote: १०−(प्राणः) जीवनप्रदः परमेश्वरः (प्रजाः) उत्पद्यमाना मनुष्याद्याः (अनु) अनुक्रमेण (वस्ते) आच्छादयति (पिता) जनकः (पुत्रम्) दुःखात् त्रातारं सुतम् (इव) यथा (प्रियम्) स्निग्धम् (ह) एव (सर्वस्य) चराचरस्य (ईश्वरः) म० १। स्वामी (यत्) यत्किंचिज् जङ्गमात्मकं वस्तु (प्राणति) प्राणिति। प्राणव्यापारं करोति (यत् च) स्थावरात्मकम् (न) निषेधे ॥
