Go To Mantra
Viewed 69 times

नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः। नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑। नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥

Mantra Audio
Pad Path

नम: । ते । घोषिणीभ्य: । नम: । ते । केशिनीभ्य: । नम: । नम:ऽकृताभ्य: । नम: । सम्ऽभुञ्जतीभ्य: । नम: । ते । देव । सेनाभ्य: । स्वस्ति । न: । अभयम् । च । न: ॥२.३१॥

Atharvaveda » Kand:11» Sukta:2» Paryayah:0» Mantra:31


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मज्ञान से उन्नति का उपदेश।

Word-Meaning: - [हे परमेश्वर !] (घोषिणीभ्यः) बड़े कोलाहल करनेवाली [सेनाओं] के पाने को (ते) तुझे (नमः) नमस्कार, (केशिनीभ्यः) प्रकाश करनेवाली [सेनाओं] के पाने को (ते) तुझे (नमः) नमस्कार है। (नमस्कृताभ्यः) नमस्कार की हुई [सेनाओं] के पाने को (नमः) नमस्कार, (संभुञ्जतीभ्यः) मिल कर भोग, [आनन्द] करनेवाली (सेनाभ्यः) सेनाओं के पाने को (नमः) नमस्कार है। (देव) हे विजयी ! [परमेश्वर] (ते) तुझे (नमः) नमस्कार है, (नः) हमारे लिये (स्वस्ति) स्वस्ति [कल्याण] (च) और (नः) हमारे लिये (अभयम्) अभय हो ॥३१॥
Connotation: - जो मनुष्य परमात्मा की उपासना करके अपना सामर्थ्य बढ़ाते हैं, वे उत्तम, बलवती, सुशिक्षित थलचर, जलचर, नभचर आदि सेनाएँ रख कर प्रजा की रक्षा कर सकते हैं ॥३१॥ इति प्रथमोऽनुवाकः ॥
Footnote: ३१−(नमः) प्रणामः (ते) तुभ्यम् (घोषिणीभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। प्रभूतघोषयुक्ताः सेनाः प्राप्तुम् (केशिनीभ्यः) केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वा-निरु० १२।२५। प्रकाशयुक्ताः सेनाः प्राप्तुम् (नमस्कृताभ्यः) सत्कृताः सेनाः प्राप्तुम् (संभुञ्जतीभ्यः) सह भोगं कुर्वतीः सेनाः प्राप्तुम् (देव) हे विजयिन् परमात्मन् (सेनाभ्यः) सेनाः प्राप्तुम् (स्वस्ति) शोभनां सत्ताम्। कल्याणम् (नः) अस्मभ्यम् (अभयम्) भयराहित्यम् (च) (नः) अस्मभ्यम् ॥