Go To Mantra
Viewed 65 times

शि॑तिप॒दी सं द्य॑तु शर॒व्ये॒यं चतु॑ष्पदी। कृत्ये॒ऽमित्रे॑भ्यो भव॒ त्रिष॑न्धेः स॒ह सेन॑या ॥

Mantra Audio
Pad Path

शितिऽपदी । सम् । द्यतु । शरव्या । इयम् । चतु:ऽपदी । कृत्ये । अमित्रेभ्य: । भव । त्रिऽसंधे: । सह । सेनया ॥१२.६॥

Atharvaveda » Kand:11» Sukta:10» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (शितिपदा) उजाले और अंधेरे में गतिवाली (चतुष्पदी) चारों [धर्म अर्थ काम मोक्ष] में अधिकारवाली (इयम्) यह (शरव्या) बाण-विद्या में चतुर [सेना] (संद्यतु) [शत्रुओं को] काट डाले। (कृत्ये) हे छेदनशील [सेना] ! (त्रिषन्धेः) त्रिसन्धि [म० २। त्रयीकुशल, सेनापति] की (सेनया सह) सेना के साथ (अमित्रेभ्यः) शत्रुओं के मारने को (भव) वर्तमान हो ॥६॥
Connotation: - सब वीरसेनाएँ धर्म, अर्थ, काम, मोक्ष की प्राप्ति के लिये प्रधान सेनापति के आधिपत्य में मिलकर शत्रुओं को जीतें ॥६॥
Footnote: ६−(शितिपदी) अ० ३।२९।१। कुम्भपदीषु च। पा० ५।४।१३९। पादस्य लोपो ङीप् च। पादः पत्। पा० ६।३।१३–०। पदादेशः। शितिः शुक्लः कृष्णश्च तयोर्मध्ये पादो गमनं तस्याः सा तथाभूता। प्रकाशान्धकारमध्यगतिशीला सेना (सम्) सम्यक् (द्यतु) दो अवखण्डने। छिनत्तु (शरव्या) अ० ३।१९।८। तत्र साधुः। पा० ४।४।९८। शरु-यत्। शरौ वाणविद्यायां कुशला (इयम्) (चतुष्पदी) अ० ९।१०।२१। चतुर्वर्गे धर्मार्थकाममोक्षेषु पुरुषार्थेषु पदमधिकारो यस्याः सा (कृत्ये) अ० ४।९।५। ऋदुपधाच्चाक्लृपिचृतेः। पा० ३।१।११०। कृती छेदने-क्यप्। हे छेदनशीले। (अमित्रेभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। शत्रून् नाशयितुम् (भव) वर्तस्व (त्रिषन्धेः) म० २। कर्मोपासनाज्ञानेषु कुशलस्य सेनापतेः (सह) (सेनया) ॥