Go To Mantra
Viewed 72 times

अग्ने॒ सह॑स्वानभि॒भूर॒भीद॑सि॒ नीचो॒ न्युब्ज द्विष॒तः स॒पत्ना॑न्। इ॒यं मात्रा॑ मी॒यमा॑ना मि॒ता च॑ सजा॒तांस्ते॑ बलि॒हृतः॑ कृणोतु ॥

Mantra Audio
Pad Path

अग्ने । सहस्वान् । अभिऽभू: । अभि । इत् । असि । नीच: । नि । उब्ज । द्विषत: । सऽपत्नान् । इयम् । मात्रा । मीयमाना । मिता । च । सऽजातान् । ते । बलिऽहृत: । कृणोतु ॥१.६॥

Atharvaveda » Kand:11» Sukta:1» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मज्ञान से उन्नति का उपदेश।

Word-Meaning: - (अग्ने) हे तेजस्वी शूर ! (सहस्वान्) बलवान् और (अभिभूः) [वैरियों का] हरानेवाला तू (इत्) ही (अभि असि) [शत्रुओं को] हराता है, (नीचः) नीच (द्विषतः) द्वेष करनेवाले (सपत्नान्) शत्रुओं को (नि उब्ज) नीचे गिरा दे। (इयम्) यह (मीयमाना) नापी जाती हुई (च) और (मिता) नापी गई (मात्रा) मात्रा [परिमाण] (ते) तेरे (सजातान्) सजातियों [साथियों] को (बलिहृतः) [शत्रुओं से] बलि [उपहार वा कर] लानेवाला (कृणोतु) करे ॥६॥
Connotation: - शूर वीर पुरुष शत्रुओं को वश में करके नियमपूर्वक अपने विश्वासपात्र मित्रों द्वारा शत्रुओं से कर एकत्र करे ॥६॥
Footnote: ६−(अग्ने) हे तेजस्विन् शूर (सहस्वान्) बलवान् (अभिभूः) अभिभविता। वशयिता (इत्) एव (अभि असि) अभिभवसि (नीचः) ऋत्विग्दधृक्। पा० ३।२।५९। नि+अञ्चु गतिपूजनयोः क्तिन्। अनिदितां हल उपधायाः ङ्किति। पा० ६।४।२४। इति नलोपः। अचः। पा० ६।४।१३८। शसि भसंज्ञायाम्। अकारलोपे। चौ। पा० ६।३।१३८। इति दीर्घः। नीचगतीन्। अधमान् (न्युब्ज) उब्ज आर्जवे, निपूर्वात् अधोमुखीकरणे। अधोमुखान् कुरु (द्विषतः) अप्रियकारिणः (सपत्नान्) शत्रून् (इयम्) (मात्रा) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१३८। माङ् माने-त्रन्। मात्रा मानात्-निरु० ४।२५। परिमाणम् (मीयमाना) क्रियमाणा (मिता) निर्मिता (च) (सजातान्) समानजन्मनः। बन्धून् (ते) तुभ्यम् (बलिहृतः) बलेरुपायनस्य करस्य वा हारकान् प्रापकान् शत्रुसकाशात् (कृणोतु) करोतु ॥