Go To Mantra

समि॑द्धो अग्ने स॒मिधा॒ समि॑ध्यस्व वि॒द्वान्दे॒वान्य॒ज्ञियाँ॒ एह व॑क्षः। तेभ्यो॑ ह॒विः श्र॒पयं॑ जातवेद उत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥

Mantra Audio
Pad Path

सम्ऽइध्द: । अग्ने । सम्ऽइधा । सम् । इध्यस्व । विद्वान् । देवान् । यज्ञियान् । आ । इह । वक्ष: । तेभ्य: । हवि: । श्रपयन् । जातऽवेद: । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥१.४॥

Atharvaveda » Kand:11» Sukta:1» Paryayah:0» Mantra:4


Reads 51 times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मज्ञान से उन्नति का उपदेश।

Word-Meaning: - (अग्ने) हे तेजस्वी पुरुष ! (समिधा) काष्ठ आदि से (समिद्धः) प्रकाशित [अग्नि के समान] (सम् इध्यस्व) प्रकाश कर, (यज्ञियान्) पूजायोग्य (देवान्) देवों [विजयी जनों] को (विद्वान्) जानता हुआ तू (इह) यहाँ [उत्तम पद पर] (आ वक्षः) लाता रहे। (जातवेदः) हे प्रसिद्ध धनवाले (तेभ्यः) उनके लिये (हविः) दातव्य वस्तु को (श्रपयन्) पक्का [दृढ़] करता हुआ तू (इमम्) इस [प्राणी वा प्रजा गण] को (उत्तमम्) श्रेष्ठ (नाकम्) आनन्द में (अधि) ऊपर (रोहय) चढ़ा ॥४॥
Connotation: - मनुष्य विद्या और पराक्रम से तेजस्वी होकर पूजनीय विद्वानों का यथावत् आदर करके अपने और प्रजागण के लिये उत्तम सुख बढ़ावे ॥४॥
Footnote: ४−(समिद्धः) प्रदीप्तोऽग्निर्यथा (अग्ने) हे तेजस्विन् पुरुष (समिधा) काष्ठादिप्रज्वलनसाधनेन (सम्) सम्यक् (इध्यस्व) ञिइन्धी दीप्तौ, रुधादिः, दिवादित्वं छान्दसम्। इन्त्स्व। दीप्यस्व (विद्वान्) विदन्। जानन् (देवान्) विजयिनो जनान् (यज्ञियान्) यज्ञ-घ। पूजार्हान् (इह) अस्मिन् पदे (आ वक्षः) वहेर्लेटि, अडागमः। सिब्बहुलं लेटि। पा० ३।१।३४। इति सिप्, ढत्वकत्वषत्वानि। आवहेः (तेभ्यः) विद्वद्भ्यः (हविः) देयं वस्तु (श्रपयन्) श्रा पाके ण्यन्तात् शतृ आकारान्तलक्षणे पुकि कृते घटादिपाठात्। मितां ह्रस्वः। पा० ६।४।९२। उपधाह्रस्वः। पचन्। दृढीकुर्वन् (जातवेदः) हे प्रसिद्धधन (उत्तमम्) उत्कृष्टम् (नाकम्) आनन्दम् (अधि) उपरि (रोहय) प्रापय (इमम्) प्राणिनं प्रजागणं वा ॥