Go To Mantra
Viewed 80 times

इ॒दं मे॒ ज्योति॑र॒मृतं॒ हिर॑ण्यं प॒क्वं क्षेत्रा॑त्काम॒दुघा॑ म ए॒षा। इ॒दं धनं॒ नि द॑धे ब्राह्म॒णेषु॑ कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ॥

Mantra Audio
Pad Path

इदम् । मे । ज्योति: । अमृतम् । हिरण्यम् । पक्वम् । क्षेत्रात् । कामऽदुघा । मे । एषा । इदम् । धनम् । नि । दधे । ब्राह्मणेषु । कृण्वे । पन्थाम् । पितृषु । य: । स्व:ऽग: ॥१.२८॥

Atharvaveda » Kand:11» Sukta:1» Paryayah:0» Mantra:28


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मज्ञान से उन्नति का उपदेश।

Word-Meaning: - (इदम्) यह (मे) मेरा (ज्योतिः) चमकता हुआ (अमृतम्) मृत्यु से बचानेवाला (हिरण्यम्) सुवर्ण, (क्षेत्रात्) खेत से [लाया गया] (पक्वम्) पका हुआ [अन्न], और (एषा) यह (मे) मेरी (कामदुघा) कामना पूरी करनेवाली [कामधेनु गौ] है। (इदम्) इस (धनम्) धन को (ब्राह्मणेषु) ब्रह्मज्ञानों में [वेदप्रचार व्यवहारों में] (नि दधे) मैं धरता हूँ, और (पन्थाम्) मार्ग को (कृण्वे) मैं बनाता हूँ, (यः) जो (पितृषु) पालन करनेवाले [विज्ञानियों] के बीच (स्वर्गः) सुख पहुँचानेवाला है ॥२८॥
Connotation: - जो मनुष्य अपना सर्वस्व परमेश्वर को समर्पण करके सत्यज्ञान द्वारा संसार का उपकार करते हैं, वे विद्वानों के बीच कीर्ति पाते हैं ॥२८॥
Footnote: २८−(इदम्) उपस्थितम् (मे) मम (ज्योतिः) दीप्यमानम् (अमृतम्) नास्ति मृतं मरणं यस्मात् तत् (हिरण्यम्) सुवर्णम् (पक्वम्) परिणतमन्नम् (क्षेत्रात्) सस्यप्रदेशात् (कामदुघा) अ० ४।३४।८। कामनां दोग्ध्री प्रपूरयित्री। कामधेनुर्गौः (मे) मम (एषा) (इदम्) (धनम्) (नि दधे) स्थापयामि (ब्राह्मणेषु) ब्रह्मज्ञानप्रचारेषु (कृण्वे) करोमि (पन्थाम्) पन्थानम्। मार्गम्। (पितृषु) पालकेषु विज्ञानिषु (यः) पन्थाः (स्वर्गः) सुखस्य गमयिता प्रापकः ॥