Go To Mantra
Viewed 81 times

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः। अदुः॑ प्र॒जां ब॑हु॒लान्प॒शून्नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम् ॥

Mantra Audio
Pad Path

शुध्दा: । पूता: । योषित: । यज्ञिया: । इमा: । आप: । चरुम् । अव । सर्पन्तु । शुभ्रा: । अदु: । प्रऽजाम् । बहुलान् । पशून् । न: । पक्ता । ओदनस्य । सुऽकृताम् । एतु । लोकम् ॥१.१७॥

Atharvaveda » Kand:11» Sukta:1» Paryayah:0» Mantra:17


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मज्ञान से उन्नति का उपदेश।

Word-Meaning: - (शुद्धाः) शुद्धस्वभाववाली, (पूताः) पवित्र आचरणवाली, (यज्ञियाः) पूजनीय (योषितः) सेवायोग्य, (शुभ्राः) चरित्रवाली (इमाः) यह (आपः) विद्या में व्याप्त स्त्रियाँ (चरुम्) ज्ञान को (अव) निश्चय करके (सर्पन्तु) प्राप्त हों। इन [शिक्षित स्त्रियों] ने (नः) हमें (प्रजाम्) सन्तान और (बहुलान्) बहुविध (पशून्) [गौ भैंस आदि] पशु (अदुः) दिये हैं, (ओदनस्य) सुख बरसानेवाले [वा मेघरूप परमेश्वर] का (पक्ता) पक्का [मन में दृढ़] करनेवाला मनुष्य (सुकृताम्) सुकर्मियों के (लोकम्) समाज को (एतु) पहुँचे ॥१७॥
Connotation: - गुणवती स्त्रियों के शुभ प्रबन्ध से उत्तम सन्तान और उत्तम गौ, भैंस, बकरी आदि उपकारी पशु घर में होते हैं और परमेश्वर की आज्ञा पालनेवाला पुरुष अवश्य प्रतिष्ठा पाता है ॥१७॥इस मन्त्र का पहिला पाद आ चुका है-अ० ६।१२२।५ ॥
Footnote: १७−(शुद्धाः) निर्मलस्वभावाः (पूताः) पवित्राचाराः (योषितः) अ० १।१७।१। सेव्याः स्त्रियः (यज्ञियाः) पूजार्हाः (आपः) म० १३। व्याप्तविद्याः स्त्रियः (चरुम्) म० १६। बोधम् (सर्पन्तु) गच्छन्तु। प्राप्नुवन्तु (शुभ्रः) शुभचरित्राः (अदुः) प्रायच्छन् (प्रजाम्) सन्तानम् (बहुलान्) (बहून्) (पशून्) गोमहिष्याद्यान् (नः) अस्मभ्यम् (पक्ता) दृढकर्त्ता (ओदनस्य) अ० ९।५।१९। सुखस्य सेचकस्य वर्षकस्य मेघरूपस्य वा परमेश्वरस्य (सुकृताम्) पुण्यकर्मिणाम् (एतु) प्राप्नोतु (लोकम्) दर्शनीयं समाजम् ॥