Go To Mantra

ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति। आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ॥

Mantra Audio
Pad Path

ये । अर्वाङ् । मध्ये । उत । वा । पुराणम् । वेदम् । विद्वांसम् । अभित: । वदन्ति । आदित्यम् । एव । ते । परि । वदन्ति । सर्वे । अग्निम् । द्वितीयम् । त्रिऽवृतम् । च । हंसम् ॥८.१७॥

Atharvaveda » Kand:10» Sukta:8» Paryayah:0» Mantra:17


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा के स्वरूप का उपदेश।

Word-Meaning: - (ये) जो [विद्वान्] (अर्वाङ्) अवर [इस काल वा लोक] में, (मध्ये) मध्य में (उत वा) अथवा (पुराणम्) पुराने काल में [वर्तमान] (वेदम्) वेद के (विद्वांसम्) जाननेवाले [परमात्मा] को (अभितः) सब ओर से (वदन्ति) बखानते हैं, (ते सर्वे) वे सब [विद्वान्, उस] (आदित्यम्) खण्डनरहित [परमात्मा] को (एव) ही (अग्निम्) अग्नि [प्रकाशस्वरूप] (च) और (द्वितीयम्) दूसरा [दूसरे नामवाला] (त्रिवृतम्) तीनों [कर्म, उपासना और ज्ञान] को स्वीकार करनेवाला (हंसम्) हंस [सर्वव्यापक वा सर्वज्ञानी] (परि) निरन्तर (वदन्ति) बताते हैं ॥१७॥
Connotation: - जो परमात्मा तीनों काल तीनों लोक में वर्तमान और सत्यज्ञानी है, उसको विवेकी जन वेदविहित कर्म, उपासना और ज्ञान से प्राप्त होकर मुक्तिसुख भोगते हैं ॥१७॥
Footnote: १७−(ये) विद्वांसः (अर्वाङ्) अवरे देशे काले वा (मध्ये) (उत वा) अथवा (पुराणम्) अ० १०।७।२६। पुरातनकाले (वेदम्) अ० ७।२८।१। परमेश्वरज्ञानम् (विद्वांसम्) विदेः शतुर्वसुः। पा० ७।१।३। वेत्तेः शतुर्वसुरादेशो वा। विदन्तं जानन्तं परमेश्वरम् (अभितः) सर्वतः (वदन्ति) कथयन्ति (आदित्यम्) अ० १।९।१। दो अवखण्डने-क्तिन्। दितिः खण्डः, अदितिः अखण्डः। दित्यदित्यादित्य०। पा० ४।१।८५। अदिति-ण्य प्रत्ययो भवार्थे। खण्डरहितं परमेश्वरम् (एव) (ते) (विद्वांसः) (परि) सर्वतः (वदन्ति) (सर्वे) (अग्निम्) प्रकाशस्वरूपम् (द्वितीयम्) द्वितीयनाम्ना प्रसिद्धम् (त्रिवृतम्) त्रि+वृञ् वरणे-क्विप् तुक् च। त्रीणि कर्मोपासनाज्ञानानि वृणोति स्वीकरोतीति तम् (च) (हंसम्) अ० ६।१२।१। हन हिंसागत्योः-स। हन्ति गच्छतीति हंसः। सर्वव्यापकं परमात्मानम् ॥