Go To Mantra

यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्। तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ॥

Mantra Audio
Pad Path

यत् । एजति । पतति । यत् । च । तिष्ठति । प्राणत् । अप्राणत् । निऽमिषत् । च । यत् । भुवत् । तत् । दाधार । पृथिवीम् । विश्वऽरूपम् । तत् । सम्ऽभूय । भवति । एकम् । एव ॥८.११॥

Atharvaveda » Kand:10» Sukta:8» Paryayah:0» Mantra:11


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा के स्वरूप का उपदेश।

Word-Meaning: - (यत्) जो कुछ [जगत्] (एजति) चेष्टा करता है, (पतति) उड़ता है, (च) और (यत्) जो कुछ (तिष्ठति) ठहरता है, (प्राणत्) श्वास लेता हुआ, (अप्राणत्) न श्वास लेता हुआ (च) और (यत्) जो कुछ (निमिषत्) आँख मूँदे हुए (भुवत्) विद्यमान है, (विश्वरूपम्) सबको रूप देनेवाले (तत्) विस्तृत [ब्रह्म] ने [उस सबको और] (पृथिवीम्) पृथिवी को (दाधार) धारण किया था, (तत्) वह [ब्रह्म] (संभूय) शक्तिमान् होकर (एकम् एव) एक ही (भवति) रहता है ॥११॥
Connotation: - एक अद्वितीय ब्रह्म विविध प्रकार जगत् को रचकर सबका धारण-पोषण करता है ॥११॥
Footnote: ११−(यत्) यत्पदार्थमात्रम् (एजति) चेष्टते (पतति) उड्डीयते (यत्) (च) (तिष्ठति) (प्राणत्) प्रश्वसत् (अप्राणत्) अप्रश्वसत् ( निमिषत्) चक्षुर्निमीलनं कुर्वत् (च) (यत्) (भुवत्) शॄदॄभसोऽदिः। उ० १।१–३०। भू सत्तायाम्-अदि, कित्। वर्तमानम् (तत्) त्यजितनि०। उ० १।१३२। तनु विस्तारे-अदि, डित्। विस्तृतं ब्रह्म (दाधार) पुपोष (पृथिवीम्) (विश्वरूपम्) सर्वेषां रूपकरम् (तत्) (संभूय) शक्तिमद् भूत्वा (भवति) वर्तते (एकम्) अद्वितीयम् (एव) ॥