Go To Mantra
Viewed 329 times

यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति। स्वर्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥

Mantra Audio
Pad Path

य: । भूतम् । च । भव्यम् । च । सर्वम् । य: । च । अधिऽतिष्ठति । स्व: । यस्य । च । केवलम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥८.१॥

Atharvaveda » Kand:10» Sukta:8» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा और जीवात्मा के स्वरूप का उपदेश।

Word-Meaning: - (यः) जो [परमेश्वर] (भूतम्) भूतकाल (च च) और (भव्यम्) भविष्यत् काल का (च) और (यः) जो (सर्वम्) सब [जगत्] का (अधितिष्ठति) अधिष्ठाता है (च) और (स्वः) सुख (यस्य) जिसका (केवलम्) केवल स्वरूप है, (तस्मै) उस (ज्येष्ठाय) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्मा [महान् परमेश्वर] को (नमः) नमस्कार है ॥१॥
Connotation: - तीनों कालों और सब जगत् के स्वामी सुखस्वरूप परमात्मा को हम सबका नमस्कार है ॥१॥ यह मन्त्र महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ४ में व्याख्यात है ॥
Footnote: १−(यः) परमेश्वरः (भूतम्) अतीतकालम् (च च) समुच्चये (भव्यम्) अनागतकालम् (सर्वम्) समस्तं जगत् (यः) (च) (अधितिष्ठति) शास्ति (स्वः) सुखम् (यस्य) ईश्वरस्य (च) (केवलम्) सेवनीयं स्वरूपम् (तस्मै) पूर्वोक्ताय (ज्येष्ठाय) अ० १०।७।१७। वृद्धतमाय। प्रशस्यतमाय (ब्रह्मणे) अ० १०।७।३२। महते प्रजापतये परमेश्वराय (नमः) नमस्कारः ॥