Go To Mantra

यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑। स वै गुह्यः॑ प्र॒जाप॑तिः ॥

Mantra Audio
Pad Path

य: । वेतसम् । हिरण्ययम् । तिष्ठन्तम् । सलिले । वेद । स: । वै । गुह्य: । प्रजाऽपति: ॥७.४१॥

Atharvaveda » Kand:10» Sukta:7» Paryayah:0» Mantra:41


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के स्वरूप के विचार का उपदेश।

Word-Meaning: - (यः) जो [परमेश्वर] (सलिले) अन्तरिक्ष में (तिष्ठन्तम्) ठहरे हुए (हिरण्ययम्) तेजोमय (वेतसम्) परस्पर बुने हुए [संसार] को (वेद) जानता है, (सः वै) वह ही (गुह्यः) गुप्त (प्रजापतिः) प्रजापालक है ॥४१॥
Connotation: - जो परमात्मा समस्त संसार का पालन करता है, वह सर्वज्ञ और सर्वान्तर्यामी है ॥४१॥
Footnote: ४१−(यः) परमेश्वरः (वेतसम्) वेञस्तुट् च। उ० ३।११८। वेञ् तन्तुसन्ताने यद्वा वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु-असच् तुट् च। ऊतं परस्परं स्यूतं संसारम् (हिरण्ययम्) तेजोमयम् (तिष्ठन्तम्) वर्तमानम् (सलिले) म० ३८। अन्तरिक्षे (वेद) जानाति (सः) (वै) एव (गुह्यः) गुह संवरणे-क्यप्। गुहायां स्थितः। गुप्तः (प्रजापतिः) प्रजापालकः परमेश्वरः ॥