Go To Mantra
Viewed 152 times

कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥

Mantra Audio
Pad Path

कस्मिन् । अङ्गे । तिष्ठति । भूमि: । अस्य । कस्मिन् । अङ्गे । तिष्ठति । अन्तरिक्षम् । कस्मिन् । अङ्गे । तिष्ठति । आऽहिता । द्यौ: । कस्मिन् । अङ्गे । तिष्ठति । उत्ऽतरम् । दिव: ॥७.३॥

Atharvaveda » Kand:10» Sukta:7» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के स्वरूप के विचार का उपदेश।

Word-Meaning: - (अस्य) इस (सर्वव्यापक ब्रह्म) के (कस्मिन् अङ्गे) कौन से अङ्ग में (भूमिः) भूमि (तिष्ठति) ठहरती है, (कस्मिन् अङ्गे) कौन से अङ्ग में (अन्तरिक्षम्) अन्तरिक्ष (तिष्ठति) ठहरता है। (कस्मिन् अङ्गे) कौन से अङ्ग में (आहिता) ठहराया हुआ (द्यौः) सूर्य (तिष्ठति) ठहरता है, (कस्मिन् अङ्गे) किस अङ्ग में (दिवः) सूर्य से (उत्तरम्) ऊँचा स्थान (तिष्ठति) ठहरता है ॥३॥
Connotation: - मन्त्र १ के समान है ॥३॥
Footnote: ३−(कस्मिन् अङ्गे) (तिष्ठति) वर्तते (भूमिः) पृथिवी (अस्य) ब्रह्मणः (अन्तरिक्षम्) अ० १।३०।३। मध्यवर्ती लोकः (आहिता) स्थापिता (द्यौः) प्रकाशमानः सूर्यः (उत्तरम्) उच्चतरं स्थानम् (दिवः) सूर्यात्। अन्यत् पूर्ववत् ॥