Go To Mantra
Viewed 89 times

यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑। भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

Mantra Audio
Pad Path

यत्र । आदित्या: । च । रूद्रा: । च । वसव: । च । सम्ऽआहिता: । भूतम् । च । यत्र । भव्यम् । च । सर्वे । लोका: । प्रतिऽस्थिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२२॥

Atharvaveda » Kand:10» Sukta:7» Paryayah:0» Mantra:22


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के स्वरूप के विचार का उपदेश।

Word-Meaning: - (यत्र) जिस [परमेश्वर] में (आदित्याः) प्रकाशमान [सूर्य आदि लोक] (च च) और (रुद्राः) गति देनेवाले पवन (च) और (वसवः) निवास करनेवाले [प्राणी] (समाहिताः) परस्पर ठहराए गये हैं। (यत्र) जिसमें (भूतम्) भूतकाल (च) और (भव्यम्) भविष्यत् काल (च) और (सर्वे) सब (लोकाः) लोक (प्रतिष्ठिताः) ठहरे हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥२२॥
Connotation: - ये सब सूर्य, वायु, प्राणी आदि जगत् परमात्मा की महिमा से परस्पर आकर्षण द्वारा स्थित हैं ॥२२॥
Footnote: २२−(यत्र) यस्मिन् परमेश्वरे (आदित्याः) अ० १।९।१। आदीप्यमानाः सूर्यादिलोकाः (च च) (रुद्राः) रुङ् गतिरेषणयोः-क्विप्, तुक्+रा दाने-क। गतिदातारः पवनाः (वसवः) निवासिनः प्राणिनः (समाहिताः) सम्यक् स्थापिताः (भूतम्) गतकालः (च च) (यत्र) (भव्यम्) अनागतकालः (लोकाः) भुवनानि (प्रतिष्ठिताः) दृढं स्थिताः। अन्यत् पूर्ववत् ॥