Go To Mantra
Viewed 118 times

कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्। क्व व्र॒तं क्व श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥

Mantra Audio
Pad Path

कस्मिन् । अङ्गे । तप: । अस्य । अधि । तिष्ठति । कस्मिन् । अङ्गे । ऋतम् । अस्य । अधि । आऽहितम् । क्व । व्रतम् । क्व । श्रध्दा । अस्य । तिष्ठति । कस्मिन् । अङ्गे । सत्यम् । अस्य । प्रतिऽस्थितम् ॥७.१॥

Atharvaveda » Kand:10» Sukta:7» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के स्वरूप के विचार का उपदेश।

Word-Meaning: - (अस्य) इस [सर्वव्यापक ब्रह्म] के (कस्मिन् अङ्गे) कौन से अङ्ग में (तपः) तप [ब्रह्मचर्य आदि तपश्चरण वा ऐश्वर्य] (अधि तिष्ठति) जमकर ठहरता है, (अस्य) इसके (कस्मिन् अङ्गे) किस अङ्ग में (ऋतम्) सत्यशास्त्र [वेद] (अधि) दृढ़ (आहितम्) स्थापित है। (अस्य) इस के (क्व) कहाँ पर (व्रतम्) व्रत [नियम], (क्व) कहाँ पर (श्रद्धा) श्रद्धा [सत्य में दृढ़ विश्वास] (तिष्ठति) स्थित है, (अस्य) इसके (कस्मिन् अङ्गे) कौन से अङ्ग में (सत्यम्) सत्य [यथार्थ कर्म] (प्रतिष्ठितम्) ठहरा हुआ है ॥१॥
Connotation: - ब्रह्मजिज्ञासु के प्रश्नों का उत्तर आगे मन्त्र ४ में है। अर्थात् सर्वव्यापक, सर्वशक्तिमान्, निराकार परमात्मा की सत्ता मात्र में सब तप, वेद आदि और अग्नि, वायु आदि ठहरे हैं ॥१॥
Footnote: १−(कस्मिन्) (अङ्गे) अवयवे (तपः) ब्रह्मचर्यादि तपश्चरणम्। ऐश्वर्यम्। सामर्थ्यम् (अस्य) ब्रह्मणः (अधि) दृढम् (तिष्ठति) वर्तते (कस्मिन् अङ्गे) (ऋतम्) सत्यशास्त्रम्। वेदज्ञानम् (अस्य) (अधि) (आहितम्) स्थापितम् (क्व) कुत्र। कस्मिन्नङ्गे (व्रतम्) वरणीयो नियमः (क्व) (श्रद्धा) सत्ये दृढविश्वासः (अस्य) (तिष्ठति) (कस्मिन् अङ्गे) (सत्यम्) यथार्थं कर्म (अस्य) (प्रतिष्ठितम्) दृढतया स्थितम् ॥